पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षेत्रगणितव्यवहारः 115

अत्रोद्देशकः ।

षड्बाहुकस्य बहविष्कम्भः पञ्च चान्यस्य ।
व्यासस्त्रयो भुजस्य त्वं षोडशबाहुकस्य वद ॥ ४० ॥

त्रिभुजक्षत्रस्य भुजः पञ्च प्रतिवाहुरपि च सप्त धरा षट् ।
अन्यस्य षडश्रस्य कादिषडन्तविस्तारः ॥ ४१ ॥

मण्डलचतुष्टयस्य हि नवविष्कम्भस्य मध्यफलम् ।
अपश्चतुर्यासा वृत्तत्रितयस्य मध्यफलम् ॥ ४२ ॥

धनुराकारक्षेत्रस्य व्यावहारिकफलानयनसूत्रम् —-

कुत्वेषुगुणसमासं बाणार्धगुणं शरासने गणितम् ।
शरवर्गात्पञ्चगुणाज्ज्यावर्गयुतात्पदं काष्ठम् ॥ ४३ ॥

अत्रोद्देशकः ।

ज्या षड्विंशतिरेषा त्रयोदशेषुश्च कार्मुकं दृष्टम् ।
किं गणितमस्य काष्ठं किं वाचक्ष्वाशु मे गणक ॥ ४४ ॥

वाणगुणप्रमाणानयनसूत्रम्--

गुणचापकृतिविशेषात् पञ्चह्नात्पदमिषुः समुद्दिष्टः ।
शरवर्गपञ्चगुणादूना धनुषः छतिः पदं जीवा ॥ ४५ ॥

अत्रोद्देशकः।

अस्य धनुःक्षेत्रस्य शरोऽत्र न ज्ञायते परस्यापि ।
न ज्ञायते च मौर्वी तह्यमाचक्ष्व गणितज्ञ ॥ ४६ ॥

बाहरन्तश्चतुरश्रकवृत्तस्य व्यावहारिकफलानयनसूत्रम्--

बारे वृत्तस्येदं क्षेत्रस्य फलं त्रिसंगुणं दलितम् ।
अभ्यन्तरे तदर्ध विपरीते तत्र चतुरश्रे ॥ ४७ ॥