पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षेत्रगणितव्यवहारः 121

वृसक्षेत्रत्रयस्थान्योऽन्यस्पर्शनाज़तस्यान्तरास्थनक्षेत्रस्य सूक्ष्मफलानयनसूत्रम्--

विष्कम्भमानसमकत्रिभुजक्षेत्रस्य सूक्ष्मफलम् ।
वृत्तफलार्धविहीनं फलमन्सरजं त्रयाणां स्यात् ॥ ८४(१/२) ॥

अत्रोद्देशकः ।

विष्कम्भचतुष्काणां वृत्तक्षेत्रत्रयाणां च ।
अन्योऽन्यस्ष्टष्टानामन्तरजक्षेत्रसूक्ष्मगणितं किम् ॥ ८५(१/२) ॥

षडश्रक्षेत्रस्य कर्णावलम्बकसूक्ष्मफलानयनसूत्रम्--

भुजभुजकृतिकृतिवर्णा द्वित्रित्रिगुणा यथाक्रमेणेव ।
भृत्यवलम्बकछतिधनकृतयश्च षडस्रके क्षेत्रे ॥ ८६(१/२) ॥

अत्रोद्देशकः ।

भुजषट्कक्षेत्रे द्वौ द्वौ दण्डौ प्रतिभुजं स्याताम् ।
अस्मिन् भृत्यवलम्बकसूक्ष्मफलानां च वर्गाः के ॥ ८७(१/२) ॥

वर्गस्वरूपकराणिराशीनां युतिसङ्ख्यायानयनस्य च तेषां वर्गस्वरूप-
करणिराशीनां यथाक्रमेण परस्परवियुतितः शेषसङ्ख्यानयनस्य च सूत्रम्--

केनाप्यपवर्तितफलपदयोगवियोगकृतिहताच्छेदात् ।
मूलं पदयुतिवियुती राशीनां विद्धि करणिगणितमिदम् ॥ ८८(१/२) ॥

अत्रोदेशकः।

षोडशषत्रिंशच्छतकरणीनां वर्गमूलपिण्डं मे ।
अथ चैतत्पदोषं कथय सरवे गणिततयज्ञ ॥ ८९(१/२) ॥

इति सूक्ष्मगणितं समाप्तम् ।