पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षेत्रगणितव्यवहारः 133

त्रिसमचतुरश्रस्योदाहरणम् ।

गणितं सूक्ष्मं पञ्च त्रयोदश व्यावहारिकं गणितम् ।
त्रिसमचतुरश्रबाहून् सञ्चित्य सखे ममाचक्ष्व ॥ १६७(१/२) ॥

व्यावहारिकस्थूलफलं सूक्ष्मफलं च ज्ञात्वा तद्यावहारिकस्थूलफलवत्
सूक्ष्मगणितफलवत्समत्रिभुजानयनस्य च समवृत्तक्षेत्रव्यासानयनस्य च सूत्रम्--

धनवगन्तरमूल यत्तन्मूलादिसङ्गणितम् ।
बहुस्त्रिसमात्रिभुजे समस्य वृत्तस्य विष्कम्भः ॥ । १६८(१/२) ॥

अत्रोद्देशकः ।

स्थूलं धनमष्टादश सूक्ष्मं त्रिघन नवाहतः करणेः ।
विगणय्य सरवे कथय त्रिसमत्रिभुजप्रमाणं मे ॥ १६९(१/२) ॥

पञ्चकृतेर्धगों दशगुणितः करणिर्भवेदिदं सूक्ष्मम् ।
स्थूलमपि पञ्चसप्ततिरेतको वृत्तविष्कम्भः ॥ १७०(१/२) ॥

व्यावहारिकस्थूलफलं च सूक्ष्मगणितफलं च ज्ञात्वा तद्यावहारिक
फलवत्तत्सूक्ष्मफलवह्निसमत्रिभुजक्षेत्रस्य भूभुजाप्रमाणसङ्ख्ययोरानयनस्य
सूत्रम् —

फलवगोन्तरमूल द्विगुणं भूव्यवहारिक बाहुः ।
भूम्यधेमूलभक्ते द्विसमत्रिभुजस्य करणमिदम् ॥ १७१(१/२) ॥

अत्रोद्देशकः ।

सूक्ष्मधनं षष्टिरिह स्थूलधनं पञ्चषष्टिरुद्दिष्टम् ।
गणयित्वा ब्रूहि सरवे द्विसमत्रिभुजस्य भुजसङ्ख्याम् ॥ १७२(१/२) ॥