पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

138 गणितसारसङ्ग्रहः

इयं व्युत्क्रमेण निक्षिप्य तद्युत्क्रमं न्यस्ताबाधाद्वयमेव आयतचतुरश्रक्षेत्र
द्वये कोटिद्वयं परिकल्प्य तत्कर्णद्वयस्य समानसङ्ख्यानयनसूत्रम्-–

डोलाकारक्षेत्रस्तम्भद्वितयोर्ध्वसङ्ख्ये वा।
शिखरिढयोर्वसङ्ख्ये परिकल्प्य भुजद्वयं त्रिकोणस्य ॥ २०१(१/२) ॥

तदोर्द्धितयान्तरगतसङ्ख्यायास्तदाबाधे ।
आनीय प्राग्वत्ते व्युत्क्रमतः स्थाप्य ते कोटी ॥ २०२(१/२) ॥

स्यातां तस्मिन्नायतचतुरश्रमंत्रयांश्च तद्दोभ्यम् ।
कोटिभ्यां कर्णं द्वौ प्राग्वत्स्यातां समानसङ्ख्यौ तौ॥ २०३(१/२) ॥

अत्रोद्देशकः ।

स्तम्भस्त्रयोदशैकः पञ्चदशान्यश्चतुर्दशान्तरितः ।
रजवेज़ शिरवरे भूमीपतिता क' आबाधे ॥
ते रज्जू समसङ्ख्ये स्यातां तद्रज्जुमानमपि कथय ॥ २०५(१/२) ॥

द्वाविंशतिरुत्सेधो गिरेस्तथाष्टादशान्यशैलस्य ।
विंशतिरुभयोर्मध्ये तयोश्च शिरवयोस्स्थितौ साधू ॥ २०६ ॥

आकाशचारिणौ तौ समागतौ नगरमत्र भिक्षायै ।
समगतिकौ सञ्जातौ तत्राबाधे कियत्सङ्ख्ये ।
समगतिसङ्ख्या कियती डोलाकारेऽत्र गणितज्ञ ॥ २०७(१/२) ॥

विंशतिरेकस्योन्नतिरत्रैश्च जिनास्तथान्यस्य ।
तन्मध्यं द्वाविंशतिरनयोरद्योश्च भृङ्गयोः स्थित्वा ॥ २०८(१/२) ॥

आकाशचारिणौ । तन्मध्यपुरं समायातौ।
भिक्षायै समगतिकौ स्यातां तन्मध्यशिवारिमध्यं किम् ॥ २०९(१/२) ॥

विषमात्रिकोणक्षेत्ररूपेण हीनाधिकगतिमतोर्नरयोः समागमदिनसङ्ख्यानयनसूत्रम्--


1. क आवाधे ib grammatioally incorrect, since there an be no sodhi between
के in the dual number and आबाधे; vide footnote on page 136.