पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
८०
गोपीगीता-

तच्छङ्कालेशः। वनेऽरण्ये रोहतीति तदर्थस्तेन वीरनाम्न आरण्य- कत्वम्। तस्य चायं स्वभावः। अदृष्टपूर्व रुचिरन्दृष्ट्वा परमपि चकितो दर्शयति। अत्रायविचारः। स्वयं कृष्णस्य कुमार स्यालकानीला एव न तु शुक्ला भवितुमर्हन्तीति नीलपदमनर्थ कम्भाति तस्मान्नीलेत्यपि कृष्णसम्बोधनमेव -।। १९ ।। यद्वा नितरामीर्त्ते गच्छति अस्मान् शत्रुं वा कम्पयतीत्यर्थः। रलयोरभेदः ॥ २० ॥ यद्वा वनरूहेत्यपि कृष्णसम्बोधनम्भवतु 'आपो नारा' इति श्रुतेस्तस्य जलरुहत्वात्। मत्स्यकूर्मावतारंऽपि तथा क्रोडनृसिं- हावतारे विपिन रुहत्वसम्भवात् ॥ २१ ॥ यद्वा रशब्द: सामान्य- वन्हिपर एवोस्तु, नः अस्माकं मनसि रं वह्निं यच्छसि| स्मेति निश्चितम् ॥ २२ ॥ यद्वा स्मयोगे भूते लट् यच्छसि स्मेति सम्बन्धः'छन्दसि परेऽपि व्यवहिताश्चे'-त्यनुशासनात्। सामान्य वन्हिवाचकोऽपिशब्दो वक्तृबोद्धव्यप्रकरणवलात्कामाग्निपरः। किञ्च स्मरतीति स्मरस्तमिति यौगिकपक्षे नः स्मरणकर्तारं त्वां त्वं हे वीः! अ न यच्छ सीत्यर्थप्रतीत्या सङ्ग न ददासीत्यर्थप्र- तीतेः स्पष्टत्वान्नल्किष्टकल्पना'निर्विशेषं न सामान्य'- मितिन्या- येन वक्तृबोद्धव्य प्रकरणानुकूल्येनकामाग्निपरत्वेऽपिमहालाभः।। २३॥

 प्रणतकामदं पद्मजार्चितं

  धरणिमएडनं ध्येयमापदि

 चरणपङ्कजं शन्तमं च ते

  रमणनस्तनेष्वर्पयाधिहन् ॥ १३ ॥

प्रणतेति । यद्वा प्रणतेति पूर्ववत्सम्बोधनम्पृथक् । कामदम्