पृष्ठम्:चम्पूभारतम्.pdf/१००

एतत् पृष्ठम् परिष्कृतम् अस्ति
९८
चम्पूभारते

तत्सौभ्रात्रशरव्यस्थ द्वैधीकरणकेलये।
भवता मारचापेषू भवता मा वधूकृते ॥ १४ ॥

 इति रहस्य तपस्विनिदेश शुभोदर्क तर्कयन्तस्ते कौन्तेयास्तस्यैव समक्षमसिधारासगन्धा सधामिमामाबबन्धु ।

 एते वय चातका इव जीवनमय वर्षमेकैकमवलम्ब्य प्रियया सममनया सुखेन वत्स्याम ।

  तथाभूतेष्वस्मासु यो मिथुनकृतोपवेशे देशे दृशापि प्रविशेत्सोऽय वृजिन विहातुमजिन परिधाय सुकृतसार्थसमर्थापकतीर्थप[१]रिमृष्टास्वष्टासु दिक्षु तत्रिगुणस[२]ख्यान्पक्षान्क्ष[३]पयेदिति ।


 प्रकृते विवक्षितार्थमाह तदिति । तत्तस्माद्भवता भ्रातृणा सदन्धिन शोभनाना भ्रातृणामिद सौभ्रात्र भ्रातृस्नेह तदेव शरव्य लक्ष्य तस्य द्वैधीकरण द्विधाभञ्जनमेव केलि क्रीडाव्यापारस्तस्यै मारस्य मन्मथस्य चाप इधुश्च धनुर्बाणौ बधूकृते । वधूर्द्रौपदी ता निमित्तीकृत्येत्यर्थ । मा भवताम् । द्रौपदीनिमित्तकमान्मथविकारेण भ्रातृस्नेहो मा भज्यत्वित्यर्थं । परम्परितरूपकम् ॥ १४ ॥

 इतीति । इत्युक्तप्रकारं रहसि भव रहस्य तपखिनो नारदस्य निदेशमाज्ञावाक्य शुभ सौभ्रात्रवर्धनात्मक उदर्क उत्तरकालफल यस्मात्तथोक्त तर्कयन्तो भावयन्त सन्त । अतएव ते कौन्तेयास्तस्य नारदस्य समक्षमेव । तमेव साक्षीकृत्येत्यर्थ । असे खङ्गस्य धारयाञ्चलेन सगन्धा सदृशीम् । दुर्लक्ष्यामिति यावत् । इमा वक्ष्यमाणा सधा प्रतिज्ञामाबबन्धुर्नबद्धवन्त । 'सधा प्रतिज्ञा मर्यादा इत्यमर । अत्र नारदनिदेशस्य शुभोदर्कत्वभावनाया विशेषणगल्या प्रतिज्ञाबन्ध हेतुत्वात्पदार्थहेतुक काव्यलिङ्गम् ॥

 एत इति । एते पञ्चैकपत्नीका वय चातका पक्षिविशेषा इव जीवनमर्य मिथोविरोधनिरोधेन जीवनहेतुतया जीवनात्मकम् ‘आयुर्जीवितकालो ना' इत्युक्तत्वादायुरात्मकमिति । अन्यत्र उदकविकार च । ‘जीवन जीवितेऽम्बुनि' इति विश्व । एकैक वर्षे सवत्सर दृष्टिं चावलम्ब्य स्वीकृत्य । अनया प्रियया पञ्चाना पत्न्या द्रौपद्या सम सुखेन वत्स्याम स्थास्याम ॥

 तथेति । तथाभूतेषूक्तप्रतिज्ञावलम्बिष्वस्मासु य । अस्माकमन्यतम इत्यर्थ । मिथुनेन स्त्रीपुसाभ्या कृत उपवेश शयन यस्मिंस्तस्मिन्देशे दृशी दृष्ट्यापि प्रवि शेत् । त पश्यति चेदित्यर्थ । सोऽय मिथुनोपवेशद्रष्टा अस्माकमन्यतमो वृजिन पाप तद्दर्शनजन्यम् । ‘कलुष ऋजिनैनोऽघम्' इत्यमर । विहातु परिहर्तुमजिन


  1. ‘परिपुष्टासु' इति पाठ
  2. 'स्ख्याकान्' इति पाठ
  3. ‘प्रक्षिपेदिति' इति पाठ