पृष्ठम्:चम्पूभारतम्.pdf/१०६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४
चम्पूभारते

[१]फालस्य पञ्चविशिखे पदयो कृतान्ते
 हासस्य दानवपुरेष्ववलोकनस्य
शम्बायुधे पशुपतेरपदान पद्य
 गायन्ति सिद्धमिथुनान्यष्टणोत्स तस्मिन् ॥ ३० ॥

[२]तत्र तस्य हिमाचलस्य [३]खरखुरपुटविनिमयविन्यासचन्द्रकिक्तैरव- तारपथैरपि' रोमन्थफेनशकलतारकितै प्रतीरनमेरुतलोपवेशैरप्यनु- मेयहरवृषभस्वैरविहारासु कटकसरसीषु वृजिनानि विशोध्य वन मदावलकलभविदलित[४]सरलद्रुमप्रवालपरिमलसुरभिलेनोपत्यकाव- त्मैना दिवि भुवि भरणकुशलाभ्या महेन्द्राभ्या परिगृहीता हरितम- वजगाहे ।


 फलस्येति । तस्मिन्हिमशैले सोऽर्जुन पञ्चविशिखे मन्मथे फालस्य ललाट नयनसबन्धि, कृतान्ते यमे पदयो सबन्धि, दानवपुरेष्वाकाशगतेषु हासस्य सबन्धि शम्ब वज्रसायुध यस्य तस्मिन्निन्द्रेऽवलोकनस्य सबन्धि, पशुपतेर्यदपदान प्राक्त्तन दाहादि कर्म तस्य पद्य तद्वोधकश्लोकौ । इति जात्येकवचन्। गायन्ति गान कुर्वाणनि सिद्धाना देवयोनि विशेषाणा मिथुनानि द्वन्द्वान्यशृणोत् । सिद्धदम्पतीगीय मनवशैवमन्मथदाहादिप्रतिपादकप्रबन्धाञ्श्रुतवानित्यर्थ । वसन्ततिलका ॥ ३० ॥

 तत्रेति । तत्र हिमशैले सोऽर्जुन खरास्तीक्ष्णा खुरा पुटा इव तेषा विनिमयविन्यासै पर्यायप्रक्षेपैश्चन्द्रकितै सजातार्धचन्द्राकृतिचिहै । तारकादित्वादितच् । अवतारपथरैवरोहणमार्गै रोमन्थञ्चविंतग्रसपुनश्चर्वणाधत्फेन डिण्डीर तस्य शकलै खण्डैस्तारकितै सजाततारकै प्रतीरनमेरूणा तटरुहच्छायाद्रुमाणा तलेषु मूलभागेषूपवेशैरपि शयनैक्ष्चानुमेयास्तक्र्या हरबृषभस्य स्वैरविहारा इच्छाविहारा यासु तासु तस्य हिमशैलस्य कटकसरसीषु नितम्बसर सु वृजिनानि विशोध्य पापान्यपनुद्य वनमदावळकलभैररण्यगजबालकैर्विदलिताना भञ्जिताना सरलद्रुम प्रवालाना देवदारुकिसलयाना परिमलै सुरभिलेन सुगन्धवता उपत्यकाया पर्वतासमभूमौ वत्र्मना । ‘उपत्यकाद्रेरासना भूमि’ इत्यमरः । दिवि स्वर्गे भुवि च भरणे पालने वहने च कुशलाभ्या समर्थाभ्या महेन्द्राभ्यामिन्द्रेण पर्वतेन द्वाभ्या परिगृहीता भार्यात्व प्रापित हरित दिश प्राचीमवजगाहे प्राप्तवान् ॥


  1. ‘भालस्य’ इति पाठ
  2. ‘तत्र तत्र स तस्य’ इति पाठ
  3. ‘खर’ इति नास्ति कचिव
  4. ‘तरलसरल इति पाठ