पृष्ठम्:चम्पूभारतम्.pdf/१०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०५
तृतीय स्तबक ।

सफुल्यमाननवकेतकपासुगर्मै[१]
 पर्यन्तनिर्झजलै फ[२]लिताभिषेक ।
पार्थ स तत्र जनकाभिधयेव हृष्ट
 पादे चिर परिचचार गिरि महेन्द्रम् ॥ ३१ ॥
निज [३]नगरनिरीतो वासविर्दिक्षु सर्वा
 स्वपि परिणयहेतौ क्कापि यात्रामुहूर्ते ।
जनकपरिगृहीता सा दिगित्येव तस्या
 कथमपि न स जाता कन्यका पर्यणैषीत् ॥ ३२ ॥
जलधितटपदव्या झर्झरैक्ष्चीरशव्दै-
 रवमयमनुकुर्वन्राराजतालीवनानाम् ।
रतिपतिरथकारेणाद्रिणा लाञ्छिताया
 दिशि विविधतटिन्या दुत्तचक्षु प्रतस्थे ॥ ३३ ॥


 सस्फुल्यमानेति । तत्र प्राग्दिशि स पार्थ सफुल्यमानाना भृश विकसता नवाना च केतकाना केतकीकुसुमाना पासव परागा गर्भे मध्ये येषा तै पर्यन्तनिर्झराणा समीपस्थितप्रस्रवणाना जलै फलितो लब्धोऽभिषेक यस्य तथोक्त सन् । महेन्द्र गिरिं जनकस्येवाभिघया महेन्द्रत्याख्यया । हृष्ट इवेत्युत्प्रेक्षा । पादे चरणे प्रत्यन्तपर्वते च चिरं परिचचार शुश्रूषितवान् । परित सचरति स्मेति च । 'पादो बुन्धे तुरीयाशे शैलप्रत्यन्तपर्वते । चरणे फिरणे’ इति नानार्थरन्नमालायाम् । अत्र चरणशुश्रूषाप्रत्यन्तपर्वतसचारयो श्लेषभित्त्तिकाभेदाध्यव सायमूलातिशयोक्त्तेरुक्तोत्प्रेक्षानुश्रवितत्वाद्वयोरङ्गाङ्गिभावेन सकर ॥ ३१ ॥

 निजेति । वासवस्येन्द्रस्यापत्य वासवि सोऽर्जुन सर्वासु चतसृषु दिक्षु परि’ णयाना विवाहाना हेतौ अतएव क्कापि कस्मिंश्चित् । अनिर्वाच्यशुभदायिनीत्यर्थं । यात्रामुहूर्ते प्रयाणलग्ने निजनगरात्खीयादिन्द्रप्रस्थान्निरीत प्रस्थित सन्नपि । सा दिक्प्राची जनकेनेन्द्रेण स्वपित्रा परिगृहीता ऊढेति हेतो । तस्या प्राच्या कथमपि केनापि प्रकारेण जाता ! कन्यका न पर्यणैषीन्नोढवान् । स्वसृभावादिति भाव । परिपूर्वानग्रते कर्तरि लुङ् । अत्र दैविकस्य क्लत्रालाभस्य स्वसृत्वहेतु कत्वोक्त्तेर्हेतूत्प्रेक्षा व्यञ्जकाप्रयोगाद्म्या ॥ ३२ ॥

 जलधीति । अयमर्जुनो रतिपतेर्मन्मथस्य रथ मलयमारुत करोतीति तेना द्रिणा मलयेन लाञ्छिताया चिह्निताया विविधा कृष्णागोदावरीकावेर्यादयो बहुवि धातटिन्यो यस्य तस्या दिशि दक्षिणस्या दत्तचक्षु । तदभिमुख सन्नित्यर्थं । अतएव झझ्र्रैस्तदात्मकैक्ष्चीरस्य वल्कलस्य शब्दे । वल्क्लर्झ्रध्वनिभिरिति


  1. ‘पफ़्उल्यमान' इति पठ
  2. ‘कलिताभिषेकः इति पाठ
  3. ‘निजइति पध कचिन्नास्ति