पृष्ठम्:चम्पूभारतम्.pdf/१०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०७
तृतीय स्तबक ।

धृत्वा फलेषु सलिलानि कवेरजाया
 साम्य परीक्षितुमिवाभ्रसरिदगुणौघै ।
अभ्रलिहैर्निबिडिता तटनारिकेलै-
 रालोक्य चोलवसुधामयमभ्यनन्दत् ॥ ३६ ॥
[१]कालेन स[२]गततमा कटुतामवेत्य
 स्वर्गौकसा[३] मथ सुधारसनि स्पृहाणाम् ।
[४]अभ्रलिह फलवतस्तटनारिकेला-
 न्सहात्मजासलिलवैवधिकानमस्त ॥ ३७ ॥
वाराशिवासजडमात्मवपुर्विशोष-
 मानेतुमातपभरात्तटमुत्तरेण ।
लङ्कामिवागतवती निजपारैवर्ज
 पार्थो विवेश नगरीमथ पाण्डयगुप्ताम् ॥ ३८ ॥


 धृत्वेति । अयमर्जुनोऽभ्रसरितो गङ्गाया गुणाना माधुर्यधावल्यादीनामोघैर्वृ न्दै सह साम्य परीक्षितुमिवेत्युत्प्रेक्षा । कवेरजाया कावेर्या सलिलानि जलानि फ़्लेषु धृत्वावभ्रलिहैर्गगनस्पर्शिभिस्तटयोर्ये नारिकेला वृक्षास्तैर्निबिडिता पूणौ चोलक्सुधा चोलभूमिमालोक्याभ्यनन्दत्सतुष्टवान् । वसन्ततिलका ॥ ३६ ॥

 काळेनेति । काळेन चिरेण सगततमामत्यन्तसजाता कटुता काटवमवेत्य सभाव्य । अथ सुधाया कटुत्वसभावचनानन्तर सुधाया अमृतस्य रसे माधुर्ये । सुधारसे अमृतरस इति वा । नि स्पृहाणा खर्गौकसा देवानामभ्रलिह फलवतस्तटनारिकेलान्सह्यात्मजासलिलस्य कावेरीजलस्य वैवधिकान्वार्तावहान् । ‘वार्ता वहो वैवधिक ’ इत्यमर । विविव शिक्यद्वयसहितो दण्डविशेषो भारवहनसा धन तेन हरति भार । तेन वहति-' इति ठकू । अमस्त तर्कितवान् । मन्युते कर्तरि लुड्। चिरं पर्युषितानि मधुराणि कद्भभवन्तीति प्रसिद्धि । उत्प्रेक्षा । 'कालेन सगततमा-' इत्येतच्छलोको बहुषु न दृष्ट ॥ ३७ ॥

 वाराशीति । अथ चोलदेशप्राप्यनन्तरं पार्थो वारा वारीणा राशि समुद्रस्तस्मिन्वासेन स्थित्या जड शैल्यान्वितम् । ‘आप की भूम्नि वावारि’ इति जलपर्यायेष्वमर । ‘रो रि’ इति रेफलोप । आत्मनो वपुरातपस्य भरादतिशयाखेतोर्विशोष शुष्कीभावमानेतु प्रापयितु तटमुत्तरेण समुद्रतीरस्योत्तरभागे । उत्तरतीर इति यावत् । ‘एनपा द्वितीया’ इति द्वितीया । निजै पैौरै राक्षसैर्वर्ज यथा तथागतवतीं लङ्कमिव स्थितामित्युत्प्रेक्षा । पाण्ड्येन राज्ञा गुप्ता रक्षित नगरी मणलूराख्या विवेश प्राप्तवान् ॥ ३८ ॥


  1. ‘कालेन-' इति पद्य कश्चिन्नास्ति
  2. ‘ह त महता' इति पाठ
  3. ‘अपि’ इति पाठ
  4. ‘अभ्रलिहा' इति पाठ