पृष्ठम्:चम्पूभारतम्.pdf/११७

एतत् पृष्ठम् परिष्कृतम् अस्ति
११५
तृतीय स्तबक ।

 [१] मान्मथे ज्वलति वासवसूनुर्मानसे परिणये यदुपुत्र्या ।
 लाजवापमिव कर्तुमुपेन्द्र तत्सर्भ्यमथ चित्तमनैषीत् ॥ ५८ ॥
अणुमात्रमिद सहेत बोढु न हि विश्वभरमद्य मामितीव ।
मनसोऽ[२] ध्यवरुह्य तस्य दृष्टे पुरत प्रादुरभूत्पुमान्पुराण ॥ ५९ ॥
 [३]स्वस्य चेष्टाकथानद्या द्वितीयर्तुगुणज्ञया।
 न बभूवे तयोस्तत्र नयनानन्दिनोर्मिथ ॥ ६० ॥
विजयो मधुरस्मितस्य भाव विदुषस्तस्य मतेन भिक्षुवेष ।
कुसुमास्त्रभयादिवानिगूढ़ कुहरे रैवतकस्य तिष्ठति स्म ॥ ६१ ॥


 मान्मथ इति । अथ वर्षाकालप्रादुर्भावानन्तरम् । वासवसूनुरर्जुनो यदुयुया सुभद्राया सबान्विनि मानसे सपल्पविषये परिणये । विवाहसमय इत्यर्थ । ज्वलति मान्मये मन्मथविकारात्मकेऽग्नौ लाजवप लाजपहोम वैवाहिक कर्तुमिवेत्युत्प्रेक्षा । तस्या सुभद्राया सगर्यं सोदर्यमुपेन्द्र श्रीकृष्ण चित्त मानस प्रयनैषीप्रापयामास । तत्रैवोक्तविवाहादिति भाव । दुह्यादित्वेन द्विकर्भकान्नयते कर्तरि लुट। लाजहोमस्य वधूसोदरकर्तृत्व प्रसिद्धम् । चिन्तितार्थानुकूत्याय हरि सस्मारेति परमार्थ । स्वागता ॥ ५८ ॥

 अण्विति । पुराण पुमान्कृष्णोऽणुमात्रमातिसूक्ष्ममिदमर्जुनस्य मनो विश्वभर व्रह्माण्डधारिणम्। अतिदुर्भरमिति यावत् । मा वोढमद्य न सहेत न क्षमेत। हि। अवधारणे । इतीव इत्यालोच्येवेत्युत्प्रेक्षा । तस्यार्जुनस्य मनसो हृदयादध्यवस्य दृष्टे पुरत प्रादुरभूदाविर्बभूव । भक्तपरवीनस्य हरेनैंतदाश्चर्यमिति भाव । औपच्छन्दसिक्म् ॥ ५९ ॥

 खस्येति । तत्र रैवतकाद्रौ तस्मिन्श्रीकृष्णप्रादुर्भावसमये वा । मिथो नय नानन्दिनो परस्परमवलोकनजनितानन्दवतोस्तयो कृष्णार्जुनयो खस्यान्यो न्यस्य चेष्टयया धृत्तान्तकथनेनैव नद्या द्वितीयस्य ऋतोफीष्मस्य गुण शोपण जा नातीति ज्ञया न बभूवे न भूतम् । भवतेर्भावे लिट् । वर्षासु सारिदिव तत्कया वत्रध इत्यथ । विरात्सगमे सुहृदो स्रलापोऽमृतायत इति भाव । रूप कालकार ॥ ६० ॥

 विजय इति । विजयोऽर्जुनो भाच स्वाभिप्राय सुभद्राविषयक विदुषो जानत अतएव मधुर साकूत स्मित यस्य तस्य श्रीकृष्णस्य मतेनानुमत्या भिक्षो सन्यासिन इव वेषो यस्य तथोक्त सन् । कुसुमास्त्रान्मन्मथाद्भयादिव । रैवैतस्याहू कुहरे गुह्यामतिगूढ़ परैरलक्षित सन् । तिष्ठति स्म । उस्तैक्षा । औपच्छन्दसिकम् ॥ ६१ ॥


  1. ‘म मथे' इति पाठ
  2. अप्यवरुझ’ इति पाठ
  3. ‘स्वस्व’ इति पाठ