पृष्ठम्:चम्पूभारतम्.pdf/१२

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथम स्तबक।

जग्राह निग्राहपर परश्रिया क [१]रै कराग्रेण करेणुचङ्गम ।
कुन्तीं [२] शकुन्तीशरथो यथा रमा समुद्रकाञ्चीं च स मद्रकन्यकाम् ॥ १५ ॥

 अथ [३]कदाचिन्मृगयोपळालितहृदयो नरेश्वरोऽयमश्वे शशिश्वेतरोचि [४] षि विश्वातिशायिनि [५]विजितमातरिश्वनि कृताधिरोह पार्श्वधृतविक्ष्वकद्रुभिरनेकवगु[६]राधुपकरणैध्रैनुद्रुतो मृदुभद्रविनया-


प्रवादो मृषा मिथ्यैव । जने कर्तरि लुड्। अत्र इन्दुन समुद्राज्जात कितु पाण्डो कीर्तिखण्डेभ्य इति चन्द्रस्य समुद्रजन्यत्व निषिध्य कीर्ते खण्डजन्यत्वारोपाद पह्नवभेद । यत्त्वत्र तिलास्तीर्णकृष्णाजिनेन सह दानकरणादन्तर्भवदित्यादिविशे षण चन्द्रे कलङ्कार्थम्’ इति नृसिंह , तत्तुच्छम् । कृष्णाजिनदानकीर्ते कृष्णत्वे पीतहरितगारुत्मतादिदानकीतिखण्डाना तत्तद्वर्णतापत्त्या महती प्रकृतहानि स्या दिति । पुरा किल पाण्डुर्मृगया गच्छन्वने क्रीडतोर्मृगरूपयोर्मुनिदम्पत्यो पुमास निन्नमनर्थमविन्दत-इति भारतकथात्रानुसधेया ॥ १४ ॥

 जग्राहेति । करै राजग्राह्यधनै परश्रिया शत्रुसपदा निग्राहो नितरा स्वी कारस्तस्मिन्पर आसक्त । करेणोर्गजस्येव चङ्कमो गमन यस्य तथोक्त । मत्तगजमन्दामीत्यर्थ । स पाण्डु कुन्ती मद्रकन्यका माद्री च उभे शकुन्ताना पक्षि णामीशो गरुडो रथो यस्य तथोक्तो विष्णु पुमा लक्ष्मी समुद्रकाञ्ची भुव च यथा ते उभे इव कराग्रेण जग्राह । उपयेम इत्यर्थे । गृह्यते कर्तरि लिट्। उपमाळ कार । तस्य च धृत्त्यनुप्रासेन सहैकवाचकानुप्रवेशसकर ॥ १५ ॥

 अथेति । अथ कुन्तीमाद्रीपारिणयानन्तर कदाचिज्ज्ञातुचित् अय नराणामी क्ष्वर पाण्डुर्मृगययोपळलितमनुरञ्जित हृदय यस्य तथोक्त सन् । ’मृगव्य स्यादाखेटो भृगया स्त्रियाम्' इत्यमर । विश्व समस्तवस्तुजातमतिशेत इति विश्वातिशायिनि। ताच्छील्ये णिनि । बिजितो मातरिश्वा वायुर्येन तस्मिन् । वेगे नेति भाव । शशिनश्चन्द्रस्येव श्वेत रोचि कान्तिर्यस्य तस्मिन् अश्वे कृतोऽधि रोह आरोहण येन तथोक्त सन् पार्श्वयो सव्यदक्षिणयोर्धृता गृहीता विश्व कद्रव शुनका यैस्तै । अनेकानि वागुरा मृगबन्धनजाल आदिर्येषा तान्युपकर णानि मृगयासाधनानि येषा तैर्योधैराटविकैरनुद्रुत परिधृतश्च सन् मृदुर्भद्रो मङ्गलकरक्ष्च विनयो ययोस्ताभ्या यदोर्भद्रस्य च तनयाभ्या कुन्तीमाद्रीभ्यामनुविद्वोऽन्वित सन् सिद्धाना योगिना गणेन गणनीयो महिमा प्रभावोऽस्यास्तीति तद्वतो हिमवतो हिमगिरेर्महती विस्तीर्णामटवीतटस्य वीथिका जगाहे प्रविष्ट बान् । अत्र गधेषु प्रायश एव वृत्त्यनुप्रासादय । ‘इति नेति शङ्किता'(१) इति । ’अनैकवागुरिकोपकरणानुरोवै’ इति च पाठ ॥


  1. ‘करे’ इति पाठ
  2. ‘शकु तेश’ इति पाठ
  3. “कदाचन’ इति पाठ
  4. ‘तेजसि’ इति पाठ
  5. ‘रयविजित’ इति पाठ
  6. ‘वागुरोपकरणानुरोधैर्योधै ’ इति पाठ