पृष्ठम्:चम्पूभारतम्.pdf/१२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
११९
तृतीय स्तबक ।

 कन्याकरे मृद्गति पादपद्म पु[१] ष्यन्ति गात्रे [२]पुलकाङ्कुराणि ।
 हरे हरे माधव माधवेति हरिस्मृतेरन्यथयाचकार ॥ ६८ ॥

 एकदा निर्वत्र्य प्रत्यवसानकृत्य प्रतिक्षणमिक्षुचापक्षुरप्रसतक्षणेन समन्तात्पतितै सत्त्वगुणशकलैरिव स्वे[३]दबिन्दुभिव्र्याकीर्णा चामूरवी त्वचमध्यास्य विश्रम्यन्त [४]त कुहनासन्यासिन धवित्रेण वीजयन्ती सुभद्रा तैस्तैरिङ्गितैर्यतित्वे सशस्य तस्य तत्त्वजिज्ञासया। सविनयमनुरहसि व्यजिज्ञपत् ।


‘भुजामित्’ इत्यभ्यासस्येत्वम् । प्रबभासे । अत्राज्ञानाबरस्य प्रणवोच्चारण क्रियानिमित्तेन सुभद्रावरोद्देश्यकतत्समीपगन्तृत्वोत्प्रेक्षणात्क्यािनिमित्ता स्वरूपो त्प्रेक्षा । प्रत्तमौपच्छन्दसिनम् ॥ ६७ ॥

 कन्येति । स पार्थं कन्याया सुभद्राया करे पादपद्म भृद्रति प्रक्षाल यति सति गात्रे स्वशरीरे पुष्यन्ति वधमानानि पुलकाङ्कुराणि हे हरे हरे माघ व माबभेत्युक्तप्रकाराया हरिस्मृतेविष्णुकीर्तन कृत्वेति ल्यब्लोपे पञ्चमी । अन्यययाचकार । वञ्चयामासेत्यथ । अत्राङ्करशब्दस्य क्लीबत्वेन प्रयोगश्चिन्त्य । अत ‘पुष्यत्सु गात्रे पुलकाटकुरेषु’ इति पाठो रमणीय । तत्र च तानन्यययाचकारेति योज्यम् । ‘गम्माकार्थत्वादप्रयोग ’ इति न न्यूनपदत्वाख्यदोष इत्यपि द्रष्टव्यम् । अत्र हरिकीर्तनक्रियया तत्स्मरणानन्दादिमे पुलकाङ्कुरा इति सुभद्राया भ्रान्तिमुत्पाद्य तत्पाणिस्पर्शकृतराजसविकारे सत्यपि सात्विकविकाररूपमर्मप्रकाशनेन तद्वञ्चनस्य कृतत्वाद्युतिरलकार । वृत्तमुपजाति ॥ ६८ ॥

 एकदेति । एकदा कस्मिश्चिद्दिने प्रत्यवसानकृत्य भोजनव्यापार निवर्त्य समाप्य ‘प्रत्यवसान भोजनमभ्यवहारश्च जग्विक्ष्च’ इति हलायुध । क्षणे क्षणे प्रतिक्षणमिक्षुचापस्य मन्मयस्य क्षुरप्रैर्बाणविशेषै सतक्षणेन छेदनेन सुमन्तात्पतितै सत्त्वगुणस्य शक्लै खण्डैरिव स्थितै । सत्त्वगुणस्य परिशुद्धत्वाच्छुभ्रत्वेन व्याहार । रवेदबिन्दुभिर्याकीर्णा व्याप्ता चमूरोर्हरिणस्येमा चामूरवी त्वचमजिनमश्यास्य । तत्रोपविश्येत्यर्थ । विश्राम्यन्त श्रममपनुदन्त कुहनासन्यासिन मायायतिं ववित्रेण मृगाजिनव्यजनेन वीजयन्ती मृदुपवन चालयन्ती । ‘ववित्र व्यजन तद्यद्रचित मृगचर्मणा’ इत्यमर । तैस्तैरिङ्गितै पुलकाद्याकारविशेषैर्यतित्वे सशयाय यतिर्वा न वेति सदिह्य तस्य कपटसन्यासिनस्तत्तवस्य ययार्थस्य ज्ञातुमिच्छया जिज्ञासया अनुरहस्येकान्ते सविनय यथा तथा वक्ष्यमाणप्रकारेण व्यजिज्ञपद्विज्ञापयामास । विपूर्वाज्ज्ञापे कर्तरि लुडि- ‘णिश्रि-' इत्यादिना चङि सन्वद्भावात् अभ्यासस्य ‘सन्यत ’ इतीत्वम् ॥


  1. ‘पुष्यत्सु” इति पाठ
  2. ‘पुलकाङ्कुराणि’ इति पाठ
  3. “श्वेत” इति पाठ
  4. ‘त कुहुनास यातिन' इति नास्ति क्कचित्