पृष्ठम्:चम्पूभारतम्.pdf/१३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३२
तृतीय स्तबक ।

 इति चिर विहत्य प्रतीरमुत्तीर्णाभिर्जलमेलनव्रीडादिव सकुचितात्मभि कुचैरानमिताभिस्तदङगसङग[१]सगतशर्माणि मर्मरगिरा स‌स्तुत्य पवनचञ्चलैरञ्चलै श्र्लाघमानानीव वसनानी निव[२] सितवतीमि कायकान्ति[३]लताकोर[४]काणि कनकाभरणानि कामनीयकपुनरुत्तिमात्रस्य पात्रयन्तीभिर्वधूटीभि सह तटाटवीं पर्यटतोस्तयोरग्रे दिशि दिशि कृ[५] शितशिशिरेतराभीशुप्रकाशो जनह्शा कोशी[६]करणदेशिक कोऽपि महसा राशिराविरासीत् ।

उन्मीष्येन्मिष्य यत्नात्परिचलितयथापूर्वशत्त्याथ दृष्टया
 तन्मध्ये वीक्ष्य कचित्पुरुषमनुदितच्छायसहस्तातपत्रम्।


 इतीति। इत्युक्तप्रकारेण चिर विहत्य जलक्रीडा कृत्व प्रतीर तट प्रति उत्तीर्णाभि जलाना लडयोरभेदामन्मूर्साणा च मेलनेन सगत्या व्रीडात् लज्जयेवे त्युत्प्रेक्षा। सुकचित मुकुलित आत्मा मन स्वरूप च येषा तै। कुचा जलस ङेगन स्वल्पीभवन्तीति प्रसिध्दम्। कुचैरानमिताभि। तासाभङ्गै सङेगन सगत शर्म सुख येषा तान्यत एव मर्मर् वेष्टाजन्य ध्वनिरेव गी वाक् तया सस्तुत्य पव नेन चञ्चलैरञ्चलै प्रान्तै श्लाघमानानि शिरोभिरभिनन्दयमानानीव स्थितानि वसनानि वस्त्राणी निवसितवतीभिर्वेष्टितवतीभि। कायकान्ते शरीरशोभया एव लताय कोरकाणि मुकुलानि कनकाभरनणानि कामनीयकेन सौन्दर्येण नैस र्गिकेण पुनरुक्तिरेव पुनरुक्तिमात्र तस्य पात्रयन्तीभि पात्राणी कुर्वन्तीभि। निसर्गसुन्दरीणा किमेतै सोन्दर्यमिति तेषा वैयर्थ्य सूचयन्तीभिरित्यर्थ।पात्र शब्दात्'तत्करोति'-इति ण्यन्ताल्लट शतरि 'उगितश्च' इति डीप् । ववूटीभि कान्ताभि सह। यधूटी महिला भामा'इति त्रिकाण्डशेष । तटाटवी यमुना तीरकानन पर्यटतो स्वैर सचरतोस्तयो कृष्णार्जुनयोरग्रे पुरस्तात् दिशि दिशि प्रतिदिश कृशित क्षीणीकृत शिशिरेतराभीशोरष्णकिरणस्य प्रकाश आतपो येन तथोक्त अत एव जनस्य दृशा नेत्रणा कोशीकरणे मुकुलने देशिका आचार्य।तत्कारयितेति यावत्।महसा तेजसा राशि कोऽपि पुमानाविरसीत्प्रादुर्बभूव।'कायकान्तिलताकोरकाणिव'इति इवशब्दपाठ क्वाचित्क प्रामादिक।तत्रोत्प्रेक्षाया प्रसत्तयभावादिति।यत्तु तदङेल्यत्र कुचरूपङेगति नृसिंह,तन्न अग्रे निवसनस्य सर्वाङसबन्धित्वेन सदर्भविरोवापत्तेरिति। उत्प्रेक्षारूपकसस्रुष्टि॥

 उन्मिष्येति। तस्मिन्नेव क्षणे तत्क्षणम्।'देशकालाध्वगन्तव्या'इति कर्मत्वम्।यत्नात्।कृच्छादित्यर्थ।उन्मिष्योन्मिष्योन्मील्योन्मील्य।वीप्साया


  1. 'सगमशर्माणि'इति पाठ
  2. 'वसित'इति पाठ
  3. 'कनकलता' इति पाठ
  4. 'कोरकाणीव'इति पाठ
  5. 'कशित'इति पाठ
  6. 'काशीकर'इति पाठ