पृष्ठम्:चम्पूभारतम्.pdf/१३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३५
तृतीय स्तबक ।

परस्परासङ्गफलप्रदित्सया स्वजन्मतारैन्दववासराविव ।
उपस्थितौ तावुपसृत्य सभ्रमात्स[१] आशिषोऽनन्तरमेवमब्रवीत् ।१०५।
क्षुत्प्रपीडयति मामयि वीरौ कुक्षिमेत्य चकितेव युवाभ्याम् ।
[२] याच्यते तद्शन बहु भोक्तु यस्य तृप्यति पुरातिथिरेष ॥ १०६ ॥
इथ स्वदक्षिणकर पुरत प्रसार्य
 तस्यार्हतो वचनपाषर्ण्यनुधाविवेगा ।
ताभ्या तथेति फ[३]णितिस्तु समाललम्बे
 सत्स्व्रर्थना फलमदौहृदमेव सृते ॥ १०७ ॥


 परस्परेति । सोऽग्निर्युद्धब्राह्मणवेष परस्परासङ्गेनान्योन्यमेलनेन यत्फल भोजन तस्य प्रकर्षेण दातुमिच्छा प्रदित्सा । ददाते सन्नन्तादप्रत्यय । तया उपस्थितौ प्रत्यासन्नौ स्वौ स्वीयौ जन्मतारा जन्मनक्षत्र ऐन्दवासर सोमवास रक्ष्च तौ द्वाविव स्थितावित्युत्प्रेक्षा । तौ कृष्णमर्जुन च उपसृत्य सनिधाय आशिष आशीर्वादस्य अनन्तर सभ्रमात्सतोषात् एव वक्ष्यमाणप्रकारेणाब्रवीत् । सभ्र मादुपसृत्येति वा योजना । ‘अध्वा भोजनमालस्यम्’ इत्यादिना भानुवादे जन्मर्क्षयोगे प्रत्येक फलश्रवणात्त्तत्रत्यभोजनफलप्रदातृत्वेन कृष्णार्जुनयोस्तत्वेनो त्प्रेक्षणम् । ‘तदाशिषोऽनन्तरम्' इत्यपपाठे भ्रमेण मृसिहाव्यारयान कर्तृवाचक पदाभावेन न्यूनपदत्वाख्यदोषापत्तेरुपेक्ष्यम् । वशस्थवृतम् ॥ १०५ ॥

 भूदिति । अयि वीरौ हे कृष्णार्जुनौ, क्षुत् जठराग्निजनितोदरदाह युवाभ्या युष्मत्त चकिता भीतेवेत्युत्प्रेक्षा । कुक्षिमुदर एत्य सा प्रकर्षेण पीडयति । एषो ऽतिथिर्यस्यान्नस्य पुराग्ने तृष्यति येनानेन तृप्तो भविष्यतीत्यर्थ । ‘थावत्पुरा निपातगोर्लट्' इति लट् । ‘निकटागामिके पुरा’ इत्यमर । अनेन मया तद शन अन्न खाण्डववनरूप बहु यथातथा भोक्तृ याच्यते । याचे कर्मणि लट । अत्र क्षुत्पीडाया अशनयाच्याहेतुवाद्वाक्यार्थहेतुक काव्यलिङ्गमुत्प्रेक्षाससृष्टम् । खागताशवृतम् ॥ १०६ ॥

 इत्थमिति । इत्थमुक्तप्रकारेण स्वस्य दक्षिणकर पुरतोऽग्रे प्रसार्यं । अर्दत । अशन प्रार्थयत इत्यर्थ । चुरादिणेरनित्यत्वादप्रयोग । तस्य ब्राह्मणस्य यद्वचनम् याच्यते तदशन बहु भोक्त्तुम्' इत्येवरूप तस्य पार्ष्ण्यनुधावी वेगो यस्या सा । अविलम्बितानन्तर्येत्यर्थ । तथा तदशन दास्याव इत्युकप्रकारा फणिति वाक्य ताभ्या तु कृष्णार्जुनाभ्यामपि समाललम्बे गृहीता । लम्बते कर्मणि लिट् । तथाहि--सत्सु सज्जनेषु अर्थना याच्या स्त्रीलिङ्गेन स्त्री च अदौहृद गर्भधारण विनैव । सद्य एवेत्यर्थ । फल सूते जनयति । सन्तोऽविलम्बितमेवार्थिविन कृतार्थयन्तीत्यर्थ । सामान्येन विशेषसमर्थनरुपोऽर्थान्तरन्यास ॥ १०७ ॥


  1. ‘तदाशिषो ’ इति पाठ
  2. याचते’ इति पाठ
  3. ‘भणिति’ इति पाठ