पृष्ठम्:चम्पूभारतम्.pdf/१३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३६
चम्पूभारते

अथ मुदा कथितात्मयथातथभावो भगवान्बृहद्भानुर्दन्तपटी[१] यवनिकान्तर्नट[२]त्सिमतयोर्देवकीपृथासुतयोर्धुरि गिरिदरीवसतिधुरीणविभावरीचरसरीसृपदिविषदरीशमेदुरीकृतदुरीहितताण्डवस्य [३] खाण्डवस्य जगत्कण्ठेग[४]डुत्व तत्परिरक्षणदक्षस्य त्रक्ष्भुक्ष्णस्तक्षके पक्षपात
च विनिवेद्य[५] युबयो कटाक्षबलेन क्षणाहिधक्षामीति [६]स्वमपेक्षितविशेषमाचचक्षे ।
भ्रज्ञया यदुपते पुरुहूतसूनु
 सतुष्यतोऽथ जगृहे स तनूनपात ।
तूणौ च गाण्डिवसखौ तुरगाश्च शुभ्रा-
 न्कान्त रथ च नटता कपिकेतनेन ॥ १०८ ॥


 अथेति । अथ तयो प्रतिज्ञानन्तर मुदा सतोषेण याचितार्थदानप्रतिज्ञाजन्ये नात्मन यथातथाभाव याथातथ्यम् । अग्निखमिति यावत् । स कथितो निवे दितो येन स भगवान् बुहद्भानुरग्नि दन्तपट्या अधरोष्ठस्यैव यवनिकाया तिर स्करिण्था अन्तर्मध्ये नटत्प्रसरत' स्मित ययोस्तयो । स्मेराधरयोरित्यर्थ । देवकीसुतस्य पृथासुतस्य च तयो कृष्णार्जुनयोर्धुरि पुरस्तात् । गिरिदरीषु शैलगुहासु वसतिधुरीणैनिवासिभि विभावरी चरै राक्षसै , सरीसृपै सर्पै , दिविष दरीशे असुरश्रेष्ठैक्ष्च मेदुरीकृत सान्द्रीकृत दुरीहिताना लोकोपद्रवाणा ताण्डबमा विर्भावो यस्मिन् तस्य खाण्डवस्य खाण्डवनामारण्यस्य जगत लोकस्य कण्ठे गडुत्व रोगजन्यकिणत्वम्। अभोज्यत्वमिति यावत् । तस्य खाण्डवस्य परिरक्षणे दक्षस्य समर्थस्य त्र्क्ष्भुक्ष्ण इन्द्रस्य तक्षके तत्र वर्तमाने नागराजे पक्षपात च विनिवेद्य युवयो कटाक्षबलेन साहाग्योपजीवनेन क्षणात् दिधक्षामि दग्धुमिच्छामि । तदिति शेष । इत्युक्तप्रकार स्व खीयमपेक्षितविशेष कामितार्थमाचचक्षे कथितवान् । चक्षे कर्तरि लिट् । ‘सातिसवम्’ इति पाठे ससहाय यथातथेत्यर्थ । ‘सहायोऽतिसवस्तुल्यौ' इत्यमर ॥

 भ्रूसज्ञयेति । अथ स पुरुहूतसूनुरर्जुनो यदुपते श्रीकृष्णस्य भ्रुव सञया प्रेरणेन सतुष्यत कामितार्थप्रतिज्ञया प्रहृष्यमाणात्तनूनपातोऽग्ने । ‘जातवेदा स्तनूनपात्' इत्यमर । गाण्डीवस्य नाम वनुष सखायौ सहवर्तमानौ गाण्डीवसखौ । 'राजाह सखिभ्यष्टच्' इति समासान्तष्टच् । तूणौ निषङ्गौ च । त्रीन पीत्यर्थ । शुभ्रान् श्वेतान् तुरगान् अश्वाश्च । नटता नृत्यता कपिना आञ्जनेयेन युक्तेन केतनेन ध्वजेन कान्तमनोहरम् । शाकपार्थिवादिना समास । रथ जगृहे गृहीतवान् । लौकिकसाधनैरलौकिकैर्योध्दुमशक्यादिति भाव ॥ १०८ ॥


  1. ‘जवनिका’ इति पाठ
  2. ‘नटीभवत्’ इति पाठ
  3. ‘खण्डवस्य ’ इति नास्ति कचित्
  4. ‘गडुत्व च' इति पाठ
  5. ‘निवेद्य' इति पाठ
  6. ‘स्वयमपेक्षित, ‘स्वयमपेक्ष्य’ इति पाठ