पृष्ठम्:चम्पूभारतम्.pdf/१३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३७
तृतीय स्तबक ।

 मरुन्मनोमार्गणवैनतेयपृथग्ज[१]यात्तैरिव कीर्तिशावै ।
 चतुर्भिरक्ष्वै समुपास्यमान स फाल्गुनस्त रथमारुरोह ॥ १०९॥
दृशसुखनगरे पुरानुभूत दहनहठात्करण पुनार्दिइक्षु ।
उपगत इव मारुति स साक्षादुदसदस्य रथाग्रके[२]तनाङ्क ॥११०॥
  तद्भुजावनुधावन्त्या सग्रामषु जयाश्रय ।
  जङ्घाद्वयधिय तू[३] ण्यौ जनयामासतुस्तदा ॥ १११ ॥
पवनसखहशोर्मुद वितन्वन्पटुतरटकृतिकम्पिताटवीक ।
कुटिलमतनुता[४] र्जुन कराभ्या गुणमि[५]व दण्ड[६]मथास्य गाण्डिवस्य ॥ ११२ ॥
अथ गरुडवलीमुखध्वजाभ्यामनुमतिमेत्य स सननाह हर्षात् ।
बलरिपुमणिनीलमुत्प्रवाल वनमशितु वडवास्यभूरिवाग्नि ॥ ११३ ॥


 मरुदिति । स फाल्गुनोऽर्जुन । मरुतो वायोर्मनसो मार्गणस्य वैनते यस्य गरुडस्य च चतुर्णा पृथक् प्रत्येक ये जया चत्वारस्तेभ्य आत्तै कीर्तिशावै कीर्तिशिशुभिरिव स्थितैश्चतुभिरश्वै समुपास्यमान सयुज्यमान त तादृग्वेगवत्स्वेन प्रसिद्धमन्निदत्त रथमारुरोह । उत्प्रेक्षा ॥ १०९ ॥

 दशमुखेति । अस्यार्जुनस्य रथाग्रकेतनोऽङ्क चिहत्वेन वर्तमान स प्रसिद्धो मारुतिर्हनूमान् । दशमुखस्य रावणस्य नगरे लङ्काया पुरा दाहसमये अनुभूत दृष्ट दहनस्य अग्नेर्हठात्करण बलाद्दाह पुनर्द्रष्टुमिच्छुर्दिडक्षु सन्। अतएव साक्षान्मूर्तीभूय उपगत आगत इवेत्युत्प्रेक्षा । उदलसजन्नृत्यति स्म । पुष्पिताग्रवृत्तम् ॥११०॥

 तदिति । सग्रामेषु युद्धेषु तस्यार्जुनस्य भुजौ प्रत्यनुधावन्त्या अनुसरन्त्या जयश्रियो जयलक्ष्म्या जङ्धाद्वयस्य विय सभावना तूण्यौ अग्निदत्ताक्षयतूणीरौ तदा खाण्डवदाहोद्योगावसरे जनयामासतु । उत्प्रेक्षा ॥ १११ ॥

 पवनखखेति । अथार्जुन पवनसखस्याग्नेर्हशोर्मुद चक्षुरुत्सव वितन्वन्करिष्यमाण । वर्तमानसामीप्ये वर्तमाननिर्देश । कराभ्या पटुतरयातिकठोरया टकृत्या कम्पिताटवी खाण्डवारण्यभागो येन तथोक्त सन् । ‘नधृतश्च' इति कपू । अस्याभिदत्तस्य गाण्डीवस्य कार्मुकस्य गुण ज्यामिव । दण्ड कुटिल वक्र अतनुत कृतवान् । आक्षीणेनेति भाव । अत्र गाण्डीवगुणदण्डयो कौटिल्यकरणेनौपम्यस्य गम्यत्वात्तुल्ययोगिताभेद । पुष्पिताग्रावृत्तम् ॥ ११२ ॥

 अथेति । अय सोऽग्नि । गरुडवलीमुखध्वजाभ्या कृष्णार्जुनाभ्यामनुमतिं दाहाभ्यनुज्ञामेत्य । हर्षात् वडवा अश्वयोषिदाकार और्वमुनिकोप तस्यास्यात् सुखात् भवतीति भूरग्नि वडवानल इव बलरिपुमणिरिन्द्रनीलरलमिव नील


  1. ‘जयाप्तै ’ इति पाठ
  2. ‘केतनाङ्कम्’ इति पाठ
  3. ‘तूणौ’ इति पाठ
  4. ‘असकृत्’ इति पाठ
  5. ‘अपि’ इति पाठ
  6. ‘इव’ इति पाठ