पृष्ठम्:चम्पूभारतम्.pdf/१४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४०
चम्पूभारते

 [१] बाह्वोर्बल पठ पठेति वदन्निवाग्नि
  स्फोटारव स झटिति [२]स्फुदयाचकार ॥ ११८ ॥
श्वपार्श्वयुग्मज्वलदग्निकन्दला वनान्तभाजोऽजगरा महत्तरा ।
निशातव[३]ज्त्रक्षतनि स्त्रुतासृजा दशामयत्नाज्जगृहुर्महीभृताम् ॥ ११९ ॥
 तत्र निकुरुम्बाणि ' स्तम्बेरमाणामामूलमनलार्चिरवलम्बितदन्तमुसलानि प्रेमपरवशतया वशासु वितरितु स्वसृक[४]भागविन्यस्तजग्धार्धसल्लकीपल्लवकवलानीव क्षणमलक्ष्यन्त ॥
 सविधज्वलनोष्मवीचिभि सपदि म्लानकपित्थशाखिनाम् ।
 परिपाकसिता फलव्रजा प्रबभु स्फोटकबुदुदा इव ॥ १२० ॥


बाह्वोर्मुजयोर्बल शौर्य पठ पठोञ्चारयोञ्चारय इत्युक्तप्रकारेण वदन् ब्रुवन्निवे त्युत्प्रेक्षा । सोऽग्नि स्फोटैर्वेण्वादीना दाहजन्यदलनैर्य आरव पठपठात्कारस्त झटिति दुत स्फुटयाचकार प्रकटितवान् ॥ ११८ ॥

 स्वपार्क्ष्वेति । वनान्तभाज खाण्डववनवासिनो महत्तरा अतिस्थूलायतो न्नता अजगरा सर्पविशेषा स्वयो खीययो पार्श्वयोर्युग्मे ज्वलन्तोऽग्ने कन्दला ज्वाला येषा तथोक्ता सन्त । निशातेनातितीक्ष्णेन वज्रेणेन्द्रायुधेन यानि क्षतानि । व्रणानीत्यर्थ । तेभ्यो नि स्रुतान्युद्रतानि असृञ्जि शोणितानि येषा तेषा महीभृता पर्वताना दशामवस्थाम् । साम्यमिति यावत् । अयन्ताधन्त विनैव जगृहु । अत्रान्यदशाया अन्यत्रासभवेनौपम्याक्षेपादसभवधर्मनिबन्धनरूपो निदर्शना लकार ॥ ११९ ॥

 तत्रेति । तत्र दह्यमाने' खाण्डवे स्तम्बेरमाणा निकुरुम्बाणि गजबृन्दानि । इभ स्तम्बेरम पद्नी’, ‘वृन्द निकुरुम्ब कदम्बकम्’ इत्युभयत्राप्यमर । आमूल मूलदेशपर्यन्तमनलार्चिर्भिरग्निज्वालाभिरवलम्बितानि व्याप्तानि दन्ता मुसलानीव तानि येषा तथोक्तानि सन्ति । प्रेम्णा प्रियानुरागेण परवशतया पारवश्येन हेतुना वशासु करिणीषु विषये वितारितु सृक्कभागयोरोष्टप्रान्तयोर्विन्यस्ता अर्व जग्धा जग्धार्धाश्च सल्लकीपल्लवमया कवला यैस्तथोक्तानीवेत्यु त्प्रेक्षा । क्षणमलक्ष्यन्तादृश्यन्त । लक्षते कर्मणि लड् ॥

 सविधेति । सविधे समीपे ज्वलनस्य ज्वलतोऽग्नेरूष्मणो वीचिभि परम्प राभि सपदि म्लानाना प्लुष्टाना कपित्याना नाम शाखिन। वृक्षाणा सबन्विन परिपाकेन सिता श्वेता फलाना व्रजा समूहा । स्फोटकस्य मसूरिकारोगस्य बुद्बुदा व्रणविशेषा इवेत्युत्प्रेक्षा । प्रबभु । वैतालीयम् ॥ १२० ॥


  1. ‘बाहो’ इति पाठ
  2. ‘स्फुटयाबभूव’ इति पाठ
  3. ’क्षतिनि सृतासृजा’ इति पाठ
  4. ‘मग’ इति नास्ति क्कचित्