पृष्ठम्:चम्पूभारतम्.pdf/१४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४२
चम्पूभारते

 ततस्तैरनेकैर्नाकौकसामनीकैर्मत्सरेण तदुपरि[१] निपात्यमानदिग्भित्तिशिखराणामिव वेगापतता वारिधौ बाडव[२]हव्यवाडपि कवलितोऽयमस्माभिरितीव विद्युत प्रकाश्य गर्जितेन तर्जयतामिव पर्जन्यानामासारसर्वाभिसारेण निर्वापिते ब‘[३]नाग्नौ मनाक्श्यामायमाने सति शोणायमानलोचनेन कपिकेतनेन तत्प्रतिचिकीर्षया शरकदम्बैरम्बरे निरवलम्बमाकलिता [४]शाला छत्रीकृत्य पुनरपि समुन्नीयमाननिजकेतुरुषर्बुधो भगवानुद्दिदीपे ॥

 तत्रान्तरे प्रोषितवल्लभतया प्रेम्णा कुमारमश्वसेन निगीर्यं दहना-


रावतमधिरुह्यारुह्च तदीये मूर्ध्नि शिरसि वज्रमायुध न्यस्य निधाय मरुता वाहिन देवसेना सनाहयन्युद्धयोद्योजयन् सन् ब्रह्माण्डे तद्भित्तौ प्रतिरोधनेन प्रत्याघातेन विमुवै प्रत्यावृत्तैरारण्यजै खाण्डवदाहोद्भवै धूमैरिव स्थितैरित्युत्प्रेक्षा । आरव्धा कृता घोरा कठोरा आरवा गर्जितानि यैस्तैर्जलबरैर्मेधैर्नभ- स्तल गगनप्रदेशमातस्ताराच्छादितवान् । स्तृणाते कर्तरि लिट् । शार्दूल विक्रीडितम् ॥ १२४ ॥

 तत इति । तत अनेकैस्तैर्नाकौकसा देवानामनीकै बलै मत्सरेण दूषेण तेषा कृष्णार्जुनपावनामुपरि शिरसि निपात्यमानाना दिशाभेव भित्तीना शिखराणामिव स्थितानाम्। अत एव वेगादापतताम् । गुरुत्वादिति भाव । वारिधौ समुद्रे अय वाडवहव्यवाट् वडवानलोऽपि अस्माभि कवलितो भक्षित 1 किमुत यूयमित्यपिशब्दाथ । इतीव विधृत प्रकाश्यगर्जितेन । तन्मिषेणेत्यर्थं । तर्जयता अथस्थिताना पर्जन्याना मेघाना सबन्विना आसारस्य धारासपातस्य सर्वाभिसारेण सर्वोद्योगेन निर्वापिते शमिते वनाग्नौ खाण्डववहैौ मनागल्प श्यामायमाने सति । ‘धारासपात आसार ‘, ‘सर्वाभिसार सर्बौघ सर्वसनहनार्थक इति चामर । शोणायमाने कोपादरुणीभवती लोचने यस्य तथोक्तेन कपिकेतनेन कपि वजेनार्जुनेन तस्यासारसर्वाभिसारस्य प्रतिकर्तुमिच्छा प्रतिचिकीर्षा तयाम्बर आकाशे निरवलम्ब कुडयस्तम्भावारवर्ज यथा तथा शरकदम्बैर्वाणवृन्दैराकलिता सघटिता शाला छत्रीकृत्य पुनरपि सम्यगुन्नीयमान ऊर्ध्व प्रसार्यमाणो निजकेतुर्धूमो येन तथोक्त भगवान् उषर्बुधोऽग्निरुद्दिदीपे प्रजज्वाल । ‘शोचि ष्केश उषर्बुव’ इत्यग्निपर्यायेष्वमर । शुद्धसापह्नवोत्प्रेक्षयो ससृष्टि ॥

 तत्रेति । तत्रान्तरे तस्मिन्समये प्रोषित कुरुक्षेत्र प्रति प्रस्थितो वल्लभ पतितक्षको यस्यास्तस्या भाव तत्ता तया हेतुना । अश्वसेन नाम कुमार प्रेम्णा निमीर्य प्रसित्वा कण्ठे निधायेति यावत् । दहनस्याग्नेरर्चिषा ज्वालानामुष्णस्य


  1. अनेके’ इति नास्ति कचित्
  2. ‘इल्यवाहोऽपि’ इति पाठ
  3. वने' इति पाठ
  4. 'शरशाला’ इति पाठ