पृष्ठम्:चम्पूभारतम्.pdf/१४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४३
तृतीय स्तबक ।

र्चिरुष्णासहिष्णुतया पुनरपि निवृत्य दिव प्रयान्तीभिर्घनधाराभिरिव पन्नगकन्यकाभि सह वनादुत्पतन्तीं[१] तक्षककुटुम्बिनीमविलम्बितमेव श्वेतवाहन शित[२] मुखेन शिलीमुखेन रसनायामिव ग्रीवाया[३]मपि द्विधा विद[४] लयाचक्रे ॥

 नभसि कृते शरकूटे न पपाताशुगविनुन्नमम्बुमुचाम् ।
 तस्मिन्खाण्डववह्नौ तक्षकपल्या कबन्धमेव परम् ॥ १२५ ॥

अथ स कुपित स्वय कौशिकोऽपि चकितचकित विय[५]ति विहितोपसरण नवजननीशोकदयनीय हृतवाल तमहिबाल परिगृह्य लालनया परितोषमनैषीत् ॥


स्पर्शस्य असहिष्णुतया सोढुमशक्तया निवृत्य प्रत्याहृत्य पुनरपि दिवमाकाश प्रति प्रयान्तीभिर्घनाना मेघाना वाराभिरिव स्थिताभिरित्युत्प्रेक्षा । पनगफ़न्यकाभिर्नागनारीभि सह । वनात्साण्डवादुत्पतन्तीं तक्षकस्य कुटुम्बिनीं भार्याम् । ‘कन्या कुमारिका नार्यो द्वारा स्यात्तु कुटुम्बिनी’ इति विश्वप्रकाशामरौ । अपे किमुतान्य इत्यर्थ । श्वेतवाहनोऽर्जुनोऽविलम्बित सत्वर यथातथा शितमुखेन तीक्ष्णाग्रेण शिलीमुखेन बाणेन रसनाया जिह्वायामिव ग्रीवाया कन्धरायामपि द्विधा द्विप्रकार विदलयाचक्रे विपाटितवान् । उत्प्रेक्षोपमयो ससृष्टि ॥

 नभसीति । शरकूटे बाणमयगृहे नभसि आकाशे कृते सति । अर्जुनेनेति शेष । आशुगैर्वाणैरेव। वायुभिरिति श्लिष्टरूपफ़म् । विनुन्नमुद्धूतम् । ‘आशुगौ वायुविशिखौ' इत्यमर । अम्बुमुचा मेघाना सबन्वि कबन्व उदक तस्मिन्खा ण्डववह्नौ न पपात । पर कितु तक्षकपत्न्या कबन्व' नि शिर कलेवरमेव पपात । ‘कबन्धमुदके नस्त्री गतमूर्वकलेवरे’ इति वैजयन्ती । अत्रोभया क्बन्धयो प्रसक्तभ्य पतनस्य तक्षकपत्नीकबन्ध एव नियमनात्परिसख्यालकार । स च बन्धशब्दश्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तयनुप्राणित इति तयोरङ्गाङ्गिभावेन सकर । गीतिरार्या ॥ १२५ ॥

 अथेति । अय तक्षकपत्नीशिरश्छेदानन्तर कुपित स इन्द्र स्वय कौशिको व्यालग्राह्यपि इन्द्रश्च सन्निति च । 'महेन्द्रगुग्गुलूलूव्यालग्राहिषु कौशिक' इत्यमर । व्याल । सर्प इत्यर्थे । वियति आकाशे चकितचकित भीतभीत विहित कृतमुपसरण सनिधान येन तथोक्तम् । नवेन जनन्या सभन्धिन शोकेन दयनीय शोचनीय हृतबाल मातृकण्ठलग्नतया छिन्नपुच्छ त अहिबाल


  1. 'निवत्य’ इति पाठ
  2. ‘शातमुखेन' इति पाठ
  3. ‘विदलिता चक्त्रे' इति पाठ
  4. ‘विदलिता चक्त्रे' इति पाठ
  5. 'विनय' इति पाठ