पृष्ठम्:चम्पूभारतम्.pdf/१४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४४
चम्पूभारते

सुत तमभ्येत्य सुरैरशेषै क्रुध्यन्नथायुध्यत घोरमिन्द्र ।
चक्रे स दावस्य च तक्षकस्य यग्निमत्ता यदनन्निमत्ताम् ॥ १२६ ॥ ।
वनस्य तस्योपरि केवल तदा सहस्रनेत्रस्य च सव्यसाचिन ।
निषङ्गनीडोस्पतितानि पत्रिणा कुळानि कोलाहलकेलिमादधु ॥ १२७ ॥
शरान्विपाठानपि पारदृश्वन श्रुतेर्विधायाशु विमुञ्चतस्तत ।
कुरूद्वहात्साध्वसरोगिणो हरेरभूद्भिषग्दू[१]रतरप्रसर्पणम् ॥ १२८ ॥


सर्पशिशु अश्वसेन परिगृह्य लालनया आश्वसनेन परितोषमनैषीत्प्रापयामास । नयतेर्दुहादित्वेंन द्विकर्मकात्फ़र्तरि लुड्। विरोवाभासालकार ॥

 सुतमिति । अथाश्वसेनाश्वसनानन्तर छुध्यन् कुयन् इन्द्र सुतमात्मजमपि तमर्जुनमशेषै सुरै सहाभ्येत्यागत्य । घोर यथा तथायुध्यत युध्यते स्म । नन्व युक्तमात्मजेन सह युद्धमत आह-चक्र इति । यद्यस्मात्स सुतोऽर्जुनो दावस्य खाण्डववनस्य । ‘दवदावौ वनारण्यवही’ इत्यमर । अग्निरस्मिन्नस्तीत्यग्निमान् तस्य भावस्तत्ता ता चके। अग्निना साण्डव ददाहेत्यर्थ । यत् यस्मात् च तक्ष कस्य अग्नि न मन्थ[ना]ति इत्यनग्निमत् तस्य भावस्तत्ता ताम् । अग्निमन्थना भावमिति यावत् । चक्रे । सपत्नीकस्यैव तत्राधिकारात् प्रकृते तेन तन्नाशनाच्चेति । भाव । तथा च तक्षकखाण्डवयोरिन्द्रस्य प्राणेभ्योऽपि प्रियत्वात्तपीडाकरेणा मार्गवर्तिना पुत्रेण युद्ध नायुक्तमिति भाव । वाक्यार्थहेतुक काव्यलिङ्गम् ॥१२६॥

 वनस्येति । तदा युद्धशले सहस्रनेत्रय इन्द्रस्य सव्यसाचिनोऽर्जुनस्य च । द्वयो सबन्धीनि । निषङ्गास्तूणीरा एव नीडानि कुलायास्तेभ्य उत्पतितान्युत्यि तानि पत्रिणा बाणानामेव पक्षिणामिति श्लिष्टरूपकम् । कुलानि वृन्दानि । ‘पत्रिणौ शरपक्षिणौ' इत्यमरः । तस्य वनस्य खाण्डवस्योपरि केवलमूर्घ्वभाग एव । कोलाहलकेलिं क्लकलरवमादधुश्चक्रु । एकेषा शरकूटभेदनाशक्त्या अन्येषा प्रसक्त्यभावेन च न वनमध्ये प्रवेश इति भाव । श्लिष्टश्लिष्टघटित सावयवरूपकम् । वशस्थम् ॥ १२७ ॥

 शशनिति । ततो विपाठान् तत्सखान् , विगत पाठ पठन येषा तानिति च । अपि क्रमेण समुच्चये, विरोधे च । शरान्बाणान् श्रुते श्रोत्रस्य वेदस्य च । मारमन्त पश्यन्तीति पारदृश्वन । विधाय कृत्वा । आशु विमुञ्चतस्त्यजत वादाय प्रेरयतश्च कुरूद्वह्यदर्जुनात् सा वस भयमेव रोगोऽस्यास्तीति तद्वतो हरेरिन्द्रस्य दूरतरमतिदूर प्रसर्पण पलायन भिषक् वैधोऽभूत् भीत । पलायित वानित्यर्थ । “भिषग्वैद्यश्चिकित्सक ’ इत्यमर । अत्र प्रस्तुतार्जुनेन्द्रविशेषण साम्यादप्रस्तुतशिष्यप्रतिभाकरप्रसङ्गक्षमतदक्षमविद्वदविद्बृत्तान्तप्रतीते समासोक्ति । एव विपाठानपि श्रुते पारदृश्वन इत्यत्र विरोधाभासश्च । द्वयोश्च तिलत-


  1. ‘दूरतरापसपणम्' इति पाठ