पृष्ठम्:चम्पूभारतम्.pdf/१५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४९
चतुर्थ स्तबक ।

रितर किशोर ’ इति कृष्णावुभावप्यवधीर्य हिडिम्बब[१]ककुटुम्बशोकोदयादारभ्य प्रवीरजनकर्णिकामौक्तिकायमान[२]कीर्तेरात्मन समुखीन दृढतरपरिकरबन्ध [३]जरासध ग[४]न्धवहनन्दन पञ्चदशदिनानि नियुध्य ते[५]षा तृतीयभागप[६]रिसख्यानपदाभिधेयेन सह यो[७]जयमास ॥

हते तस्मिस्त्रयो दीप्रा हरिप्रस्थमुपाययु ।
आगामिनि मखे हव्यभादित्सव इवाग्नय ॥ ३ ॥
कृष्णे गते यदुपुरी क्षितिपानुजाना
 जित्वा दिश प्रतिनिवृत्तवता चतुर्णाम् ।
कोशे ममु परमसिप्रवरा गृहीता
 दोष्णोर्बलेन महता न तु हेमपुञ्जा ॥ ४ ॥


वपि कृष्णौ कृष्णार्जुनौ अववीर्यं तिरस्कृत्य हिडिम्बबकयो राक्षसयो सबन्विनो कुटुम्बयो दारापत्याद्यो शोकस्य उदयादारभ्य । तदुभयवधात्प्रभृतीत्यर्थ । प्रवीरजनस्य कर्णिका कर्णभूषण तस्या मौक्तिकानीवाचरन्ती मौक्त्तिकायमाना कीर्तिर्यस्य तस्य । अत एव आत्मन स्खस्य । भीमस्येत्यर्थ । तस्थैव मुख्यविशे ष्यत्वादात्मस्वशब्दयोर्व्यवधाने मुख्यविशेष्यपरत्वव्यवस्थापनाचेति भाव । समु खीनम् । ‘यथामुखसमुखस्य दर्शन ख ’ इति खस्येनादेश । आभिमुख्यभाज दृढतर अतिगाढ परिकरबन्ध हस्तन्यासविशेष सव्यदक्षिणपाण्योर्निकुड्य दक्षिणसव्यभुजाग्रविन्यसनात्मक यस्य तम्। परिकरो मध्यबन्ध इति केचित् । जरासव गन्धवहनन्दनो भीम पञ्चदशदिनानि नियुध्य बाहुयुद्ध कृत्वा तेषा पञ्चदशदिनाना तृतीयभागस्य दिवसपञ्चरकस्य परिसख्यान सख्याभिधायक यत्पद पञ्चतेति शव्द तस्य अभिधेयेन वाच्येन । मरणेनेति यावत् । योजयामास सघटितवान् । मारयामासेत्यर्थे । ‘समीरकुमार ’ इति पाठान्तर प्रक्रान्तानुप्रा सभङ्गादुपेक्ष्यम् ॥

 हत इति । तस्मिन् जरासधे हते सति दीप्रा तज्जयेन प्रकाशमाना त्रय कृष्णभीमार्जुना आगामिनि भविष्यति मखे राजसूये हव्य आदातुमिच्छव आदित्सव अज्नय आहवनीयगार्हपत्यदक्षिणाग्नय इवेत्युत्प्रेक्षा । हरिप्रस्थ इन्द्र प्रस्थपुर प्रति उपाययु आगतवन्त ॥ ३ ॥

 कृष्ण इति । कृष्णे यदुपुरीं द्वारका प्रति गते सति दिशश्चतस्रो जित्वा प्रतिनिवृत्तवता इन्द्रप्रस्थ पुनरागताना चतुर्णा क्षितिपस्य वर्मराजस्य अनुजाना भीमादीना दोष्णो बाह्वो महता बलेन सत्त्वेन शौर्येण च गृहीता असिप्रवरा


  1. बक’ इति नास्ति कचित्
  2. भुजकीर्ते ’ इति पाठ
  3. ‘जरासध' इति नास्ति कचिव.
  4. ‘समीरकुमार' इति पाठ
  5. ‘एषाम्' इति पाठ
  6. ‘परि' इति नास्ति कुचित्
  7. ‘घटयाबभूव’ इति पाठ