पृष्ठम्:चम्पूभारतम्.pdf/१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
चम्पूभारते

ममृगिरे हरयो मद्शालिनो मनुजपेन गिरीशदरीशया ॥२५॥
वि[१] ष्फारघोषमवकर्ण्य विनिर्गताना
 हुकुर्वता तरुणकेसरिणा गुहाभ्य।
या केवल प्रथममानन एव भल्लै-
 स्ता पज्ञ्चता स विदधे सकलेऽपि देहे॥२६॥

एवमश्रान्तमृगयापरिश्रान्तमपरिमितस्वेदशीकरनिकरकोरकितफालमूलमतेनिरे तमाश्यान तुहिनगिरिदेश्या[२] नन्दनीयमन्दिमानो मानससरोरविन्दमकरन्दसोर[३]मपारद्दश्वानो मातरिश्वान।


विवेक।तेन गहनमिव गहन कामादिभिर्द्रुर्गममन्त करण कृतवता अमुनापि मनोर्मन्त्रस्य योगात्मकस्य जपेनाभ्यासेन दर्या दहराकाशे शया हरर्योऽशवो नीलपीतादय ममृगिर इत्यर्थान्तरप्रतीतेस्तु अभिधाया प्रकृतार्थमात्रनियन्त्रणाल्लक्षणाया प्रसत्तयभावाद्वनिरेव नार्थक्ष्लेष। द्रुतविलम्बितवृत्तम्- 'द्रुतविलम्बितमाह नभौ भरौ' इति लक्षणात्॥२५॥

 विष्फारेति।विष्फारेघोष वनुष्टकारमवकर्ण्य श्रुत्वा अतएव गुहाभ्यो विनिर्गताना हुनाम शब्द कुर्वता तरुणाना केसरिणा सिंहाना या पश्चता विशालता मृतिक्ष्च केवल प्राघान्येन प्रथम पूर्व आनने मुख एव आसीत् ता पज्न्चता सकलेऽपि देहे भल्लैर्वाणविशेषै स पाण्डुर्विदधे चकार। सिंहानवधीदित्यर्थ। दघाते कर्तरि लिट्। 'सख्याभेदे विशालत्वे पश्चता मरणेऽपि च' इति विश्व।अत्र क्ष्लेषभित्तिकया एकस्या एव पश्चताया अनेकाश्रयकथनादतिशयोत्तयनुप्राणित प्र्ययालकार॥२६॥

 एवमिति। एवमुत्तॄप्रकारेण अश्रान्तया निरन्तरया मृगयया मृगव्येन परिश्रान्त अधिकश्रमयुक्त्त अतएव अपरिमितै स्वेदस्य शीकराण बिन्दूना निकरै समूहै कोरकितम्। व्याप्तमित्यर्थ। तारकादित्वदितच्। फालमूल निटि लभागो यस्य तथोक्त्त त पाण्डु तुहिनगिरेर्हिमवत।देशे भवा देश्या। 'तत्र भव' इति यत्।नन्दनीय क्ष्लाघनियो मन्दिभा मान्ध येषा ते।पृथ्वादित्वादिमनिच्। मानसाख्ये सरसि यान्यरविन्दानि कमलानि तेषु भकरन्दसौरभस्य पारमन्त पश्यन्तीति पारद्दश्वान मातरिश्वानो वायव तमाश्यान् व्रिर्द्रवम्। निरस्तश्रमजलमिति यावत्। आतेनिरे कृतवन्त। तनोते कर्तरि लिट्। यत्तु 'तुहिनगिरिदेश्यैर्हिमवद्वनीयो मन्दिमा येषा ते' इति नृसिंह, तदबोघात्पाण्डोर तुहिचगिरिदेश्यत्वत् तेन तन्मान्धस्यानन्दनीयत्वानपत्ते विशेषणद्वयेन मान्धसौरम्ययोरेव प्रतीत्या शैत्यघोतनविशेषणाभावप्रयुक्तन्यूनपदत्वाख्यदोषापत्तेश्वेति॥


  1. विस्फ़ार’ इति पाठ
  2. ’मानससरोरविन्दुसदोहसौरभपारदृक्ष्वानो इति पाठ
  3. ’सौरभी सौरम्य इति पाठ