पृष्ठम्:चम्पूभारतम्.pdf/१७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७६
चम्पूभारते


 देव्या दृशा सदसि सूचिततद्दिदृक्षो-
  र्दित्सन्नभीष्टमपि लुब्धकतामयासीत् ॥ ६८ ॥
 हेरम्बगण्डमपङ्कवि[१]शेषकौ तौ
  स्कन्दौपवाह्यशिखिपिच्छ[२]कृतावचूडौ ।
 [३]भूषाधुनीतटतरुच्छदकृल्प्तवस्त्रौ
  कोदण्डिनौ व्यरुचता कुहनाकिरातौ ॥ ६९ ॥
शबरत्वजुष प[४]रस्य पुस शशिखण्डान्नु शकार[५]सविधानम् ।
भजति स्म तदा शिखण्डभाव भगवन्मस्तकभूषण यदेष ॥ ७० ॥


सनन्ताल्लट शत्रादेश । ‘सनिमीमा-' इत्यादिनाभ्यासलोप ।लुब्ध एव लुब्वक तस्य भावस्तत्ता ता लोभ शबररूप च । अयासीत् प्राप्तवान् । याते कर्तरि लुड । ‘लुब्धो मृगयुकांक्षिणो' इति विश्व । विरोधाभास ॥ ६८ ॥

 हेरम्पेति । तौ देवीमहादेवौ हेरम्बस्य गजाननस्य गण्डयो कुम्भयो मदस्य पङ्कमयो विशेषक तिलक ययोस्तौ स्कन्दस्य औपवाह्य राज वाहन स चासौ शिखी मयूर तस्य पिच्छेन कृत अवचूड शिखभूषण ययो स्तौ । ‘राजवाह्यस्त्वैपवाह्य ’, शिखावल शिखी केकी’ इत्युभयत्राप्यमर । भूधाधुन्या शिरोभूषणगङ्गाया तटयोस्तरूणा छदै पणै कलृप्ते वस्त्रे ययोस्तौ कोदण्ड धनु अनयोरस्तीति कोदण्डिनौ कुहनाकिरातै मायया शबरदम्पती सन्तौ व्यरुचता रेजतु । स्वीयेनैव परिकरेण महतामभीष्टसिद्धि , न तु तत्र पराकाङ्क्षेति भाव ॥ ६९ ॥

 शबरत्वेति । शबरख किरातभाव जुषते सेवत इति जुष । परस्य पुस परमपुरुषस्य शभो पबयोरभेदात् शस्य शकारस्य परख मुख्यत्वम् । प्राथम्ये नावस्थानमिति यावत् । तज्जुषत इति जुष पुस पुलिङ्गस्य परस्य । परेति भगवद्वाचकशब्दस्येत्यपि बोध्यम् । शशिखण्डात् चन्द्रशकलवाचकशशिखण्डश ब्दात् शकारस्य सविधान नु सघटनमभूत्किमित्युत्प्रेक्षा । यत् यस्मात् भगवत शभो मस्तके शिरसि भूषण एष शिखण्ड तदा शभो शबरभावधारणसमये शिखण्डस्य पिच्छावचूडस्य भाव शिखण्डत्र भजति स्म प्राप्तवान् । शशिखण्डे शिखण्डतामापन्ने तस्माद्विसृष्ट शकार शशिखण्डशब्दादिवृत्तित्वसस्कारेण परश ब्दस्याविभाग गत पबयोरभेदमुपजीव्य कुहनाकिरातभगवद्वाचक पुलिङ्ग शबरश-


  1. ‘विशेषकाङ्कौ’ इति पाठ
  2. ‘विलासचूडौ’ इति पाठ
  3. ‘भूषानदीतटरुह’ इति पाठ
  4. ’वरस्य’ इति पाठ
  5. ‘सनिधानम्’ इति पाठ