पृष्ठम्:चम्पूभारतम्.pdf/१७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७७
चतुर्थ स्तबक ।


 तदानीमेव रजतगिरिशिखरान्निर्गच्छन्तौ, किमेतदिति साशयिकै[१]रपि तदनुसरणोचितवेषरचनानुकूलै [२]प्रमथकुलै परिवार्यमाणौ, समुच्चलितलाडूलमितस्ततो धावद्भिर्दूरश्रमविदारितवदनलम्ब[३]मानरसनाग्रनि[४]पातिनीभि सृणिकाकणिकाभिर्वनपद्धति [५]शुद्धतरी कुर्वद्भि[६]र्ध्ढतरश्वसितकम्पमानावयवैस्तेषु तेषु [७]वनगुल्मेषु [८]श्वापदानन्विष्यान्विष्य हुकारमाचरद्भिर्विश्वनिगमविश्वकद्रुभिरविमुक्यमानपार्श्व-


ब्दमाविश्चकारेति समुदितमर्थान्तरम् । अत्र शशिखण्डस्य शिखण्डभावभजनेन हेतुना मायाशबरे शवर्णानुमानादनुमानाकार । वाच्यवाचकयोरभेदाध्यवसाय मूलातिशयोक्तयनुप्राणित इति तयोरङ्गाङ्गिभावेन सफर । औपच्छन्दसिकम् ॥ ७० ॥

 तदानीमिति । तदानी किरातवेषधारणक्षण एव रजतगिरे कैलासस्य शिखरान्निर्गच्छन्तौ । एतत् भगवतो कैरातरूपधारण कि कुतो वा इति सशयाप न्नमानसै साशयिकैरपीत्यपि निश्चित्यैव कार्याणा कर्तव्यत्वेऽपि । कि वा भवतु भग वदनुसरणमेव परमो लाभ इति भक्तयतिशय पारिषदाना ध्वनयतीति ध्येयम् । ‘सशयमापन्न’ इति ठक् । ‘ठस्येक ’ इतीकादेश । तयो कपटशबरदपत्यो स्नुसरणे उचितस्य वेषस्य कैरातस्य रचनया निर्माणेन अनुकूलै । अन्यथा तै सुज्ञेयतया भगवति प्रातिकूल्यमेवेति भावः । प्रमथाना कुलै परिवार्यमाणौ । ‘परिचर्यमाणौ' इति पाठान्तरे पूज्यमानावित्यर्थ । सम्यक् उच्चलित उन्नमित लाङ्गूल यस्मिन् तयथा । इतस्तत धावद्भि दूर चारेण य क्ष्रमस्तेन विदारितात् विद्युतात् वदनात् वफात् लम्बमानाया रसनाया जिहाया अग्रात् निपातिनीभि निपतनशीलाभि । ताच्छीलिको णिनि । सृणिकाया लालाजलस्य कणिकाभि । 'सृणिका स्यन्दिनी लाला' इत्यमर । वने पद्धति मार्ग शुद्धतरी कुर्वद्भि अतिपवित्रा कुर्वद्रि । अभूततद्भावे च्वि । दृढतरै अतिनिबिडै श्वसितै निश्वासै कम्पमाना अवयवा पार्श्वोदरादय येषा तै । तेषु तेषु वनगुल्मेषु कुञ्जेषु श्वापदान् मृगविशेषान् अन्विष्यान्विष्य । वीप्साया द्विर्भाव । हुकारमा चरद्भि कुर्वद्भि । विश्वे समस्तै । चतुर्भिरिति यावत् । निगमै वेदैरेव विश्वकद्रुभि शुनकै मृगयाकुशलै । ‘श्वा विश्वकद्रुर्मृगयाकुशल ’ इति शुनकपर्यायेष्वमर । अविमुच्यमानौ सगम्यमानौ पार्श्वभागौ ययोस्तौ । दीपकमृग किरातादिभि साजात्यप्रेम्णा मृगागमनाय वर्धितो मृग तद्वदाचरन् दीपकमृगाय माण । क्यजन्ताल्लट शानच् । ‘अलकृतौ दीपक ल्कीब भृगे ना भृगवञ्चके


  1. ‘वेषविरचनाकुलै ’ इति पाठ
  2. ‘पारिषद’ इति पाठ
  3. ‘लम्बायमान’ इति पाठ
  4. ‘पातिनीभि ’ इति पाठ
  5. ‘शुद्धतरीभिव’ इति पाठ
  6. ‘द्वततर' इति पाठ
  7. ‘वनगुल्मिषु’ इति पाठ
  8. 'श्वापदानि’ इति पाठ