पृष्ठम्:चम्पूभारतम्.pdf/१८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८०
चम्पूभारते


मुनिरेष यदभ्ययाद्वराह मुखरज्यालतिको जवाजिघासु ।
शबरो ददृशे तदा[१]भिधावन्धनुराकृष्य सहानुयायिवर्गै ॥ ७४ ॥ ।
मा मुञ्च बाण मदनुद्रुतेऽस्मिन्नपेहि जाल्मेति किरातनेतु ।
वच स लक्ष्य मनसो न कुर्वन्वराहमस्रस्य चकार लक्ष्यम् ॥ ७५ ॥
 शिलीमुखाभ्या शिवसव्यसाचिनो
  समुज्झिताभ्या युगपत्किटेस्तनौ ।
 सम विभज्यायुरभुज्यत [२]क्षणा-
  त्सहोदराभ्यामिव पै[३]तृक घनम् ॥ ७६ ॥

तत कुपितोऽपि कुरुप्रवीरस्तप शान्ततया नातिपरुषमे[४]वमुवाच ।


कलकलै शब्दै परित आकुले व्याकुले सति नियमात् निवृत्य समाधि विरम्य। ‘जुगुसाविराम-' इत्यादिना पञ्चमी । शरा आसतेऽत्रेति शरास चाप जगृहे । गृहीतवान् । आर्तत्राणस्य तपसोऽयुत्तमत्वादिति भाव ॥ ७३ ॥

 मुनिरिति । एन वराह हन्तुमिच्छु जिघासु अत एव मुखरा शब्दाय माप् ज्या गुणो लतिकेव यस्य तथोक्त् एष मुनि अर्जुन यदा जवात् अम्य यात् वराहाभिमुखमागतवान् । तदैव धनु सशरमाकृष्य अनुयायिना सहच राणा वर्गै वृन्दै सह अभिधावन् वराहमनुद्रवन् सन् शबर कपटफिरात ददृशे अलक्ष्यत । मुनिनेति शेष । औपच्छन्दसिकम् ॥ ७४ ॥

 मा मुञ्चेति । हे जाल्म असमीक्ष्यकारिन्, मया अनुद्रुते अनुवाविते अस्मिन् वराहे बाण मा मुञ्च । अपेहि अन्यतो गच्छ । इत्युक्तप्रकार किरातनेतु कपटशबरनायकस्य वच मनस लक्ष्य विषय न कुर्वन् अकुर्वाण सन् । ननर्थस्य नशब्दस्य सुप्सुपेति समास । सोऽर्जुन वराह अस्त्रस्य बाणस्य लक्ष्य शरव्य चकार ॥ ७५ ॥

 शिलीमुखाभ्थामिति । युगपत् एफदा फिटे वराहस्य तनौ शरीरे । ‘कोल पोत्री किरि किटि’ इत्यमर । समुज्झिताभ्या प्रयुक्ताभ्या शिवसव्यसाचिनो किरातार्जुनयो शिलीमुखाम्या वाणाभ्या आयु सहोदराभ्या भ्रातृभ्या पैतृक पित्र्य बनमिव सम यथा तथा विभज्य विभाग कृत्वा क्षणात् अनुज्यत भुक्तम् । भुजे कमणि लुड्। वशस्थम् ॥ ७६ ॥

 तत इति । तत वराहववानन्तर शिवेन बाणप्रयोगाद्धेतो इति वा कुपितोऽपि कुरुप्रवीर अर्जुन तपसा शान्ततया शमप्रवानत्वेन हेतुना नातिपरुष ईषत्कूर यथा तथा एव वक्ष्यमाणप्रकारेण उचाच ॥


  1. अनुधावन् ' इति पाठ
  2. ‘त’ इति पाठ
  3. ‘क्षणम्’ इति पाठ
  4. ‘एवम्’ इति नास्ति क्कचित्