पृष्ठम्:चम्पूभारतम्.pdf/१८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८२
चम्पूभारते


 सदृश्यते खलु तपस्तव शुद्धमेत-
  द्यज्जन्तुहिसनविधौ दृढबद्धकच्छम् ।
 आस्तामिद भुजबल च मृगाययेऽस्मि-
  न्साहाय्यक यदुपजीवति मे शरस्य ॥ ७९ ॥

ईदृ[१]शीं वचनरीतिमपास्यन्नेहि सान्त्वय क्रियानसि मे त्वम् । अक्षिण किचिदरुणिनि जगत्यामन्तकोऽपि मद्तीव बिभीयात् ॥८०॥

 इति शकर[२]स्याहकारवादेन सातङ्क कुरु[३]कुलशशाङ्क पुनरपि का[४]मपि गिरमेवमङ्कुरयामास ।


आत्मोत्कर्षाभिमान । ‘आहोपुरुषिका दर्पाद्या स्यात्सभावनात्मनि’ इत्यमरः । क्रियदूर प्रकाश्यत इति काकु किचिदपि न प्रकाशनीयेत्यर्थ । परित्यक्तकुल वर्माणा कि नाम तप को नाम वा बाहुप्रताप इति भाव ॥

 तप प्रतापयोर्नि सारत्वमेव विशदयति--सदृश्यत इति । हे मुने, यत्तव तप जन्तूना प्राणिना हिसनविवौ वकर्मणि विषये दृढ यथातथा बद्ध कच्छ म यबन्धनपट येन तथोक्तम् । वृतसङ्कल्पमित्यर्थ । तदेतत्तव तप शुद्ध निदोष सत् सदृश्यते सल्विति काकु । न सदृश्यत एवेत्यर्थ । किचेति चार्थ । यत्तव भुजयोर्बलमस्मिन् मृगस्य वराहस्य अत्यये हिसाया विषये मे मम सब न्धिन शरस्य साहायक तत्कृतसहाकृत्य उपजीवति । अपेक्षत इत्यर्थ । तदिद तव भुजबलमथि आस्ता तिष्ठतु । धिगिति यावत् । मरयमुञ्चति बाण न हन्यादेव त्वद्वणो वराहमित्यर्थ ॥ ७९ ॥

 ईदृशीमिति । हे मुने, कि बहुना ईदृशी ‘शापस्य वा’ इत्यादिप्रकारा वचनाना रीतिं अपास्यन् त्यजन् सन् । एहि समीपमागन्छ | सान्वय। अपराधिन त्रायस्व मामित्यनुनय मा प्रतीत्यर्थ । त्ख कियानसि । तृणप्राय इत्यर्थ । यत । अक्षिण मम लोचने किचित् ईषत् अरुणिमा यस्य तथोते। मना शोणायमाने सतीत्यर्थ । कोपादिति भाव । जगत्या लोके अन्तको मृत्युरपि मत् मत्त अतीव भृश बिभीयात् त्रस्येत् । किमुतान्य इत्यर्थ । अत्रान्तकस्यापि मल्लोचनशोणिम्नि भयोत्पत्तौ किमुत भवादृशा क्षीणसाराणा इत्यर्थान्तरस्य कैमुत्येन सिध्देरर्थापत्ति । एव लोचनारुण्यमात्रेणान्तकत्रासरूपवाक्यार्थस्य सान्त्ववादकरण प्रति हेतुत्वात् वाक्यार्थहेतुक काव्यलिङ्गम् । द्वयोरेकवाचानुप्रवेशसफर । खागता ॥ ८० ॥

 इतीति । इति उक्तप्रकारेण शकरस्य कपटशबरस्य सबन्धिना अहकारवादेन तिरस्कारवाक्येन सातङ्क किमय जगद्विलक्षणो सवेदिति सवितर्फ ससतापो वा । ‘रुतापशङ्कास्वातङ्क' इत्यमर । कुस्कुलस्य शशाङ्क चन्द्र अर्जुन ।


  1. ‘ईदृशम्’ इति पाठ
  2. 'यक्कार’ इति पाठ
  3. ‘कुल' इति नास्ति कचित्
  4. 'गिर कामपि' इति पाठ