पृष्ठम्:चम्पूभारतम्.pdf/१८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८६
चम्पूभारते


 देवस्य तस्य जगता जनकस्य चित्ते
  पार्थप्रहारजनुष प्रमदाम्बुराशे ।
 भूषा[१]धुनीतटभुवि द्विपवकबाल्य-
  ’बप्रक्रियाभिरुदित प्रमद् कणोऽभूत् ॥ ९० ॥

[२]स गाण्डीवण्डोऽपि खाण्डवे तक्षकवधूवधसाधनतया चिरमयभस्मत्कुलविरोधीति क्रोधनै[३]स्तस्य जटावनकुटुम्बिभि कुण्डलिभिर्भक्षित इव तत्क्षण नालक्ष्यत । ततोऽय दैवविपर्यय कि[४]मुतामुष्य माया किमिति चिन्ताप-


महता रक्तपातस्य लोकमात्राश्रेयस्करत्वोतेरग्रेऽर्जुनस्य जगदीश्वरप्रसादरूपश्रे योवर्णनासगत्या तदीयशिवविदूषविलसितमेवैतदिति नास्माक चोद्यावकाश । वैतालीयम् ॥ ८९ ॥

 देवस्येति । जगता सर्वलोकाना जनकस्य पितु अतएव तस्य देवस्य शभो चित्ते मनसि भूषाधुन्या शिरोभूषणभूतगङ्गाया तटभुवि तीरदेशे शिरोरूपे द्विपवक्त्रस्य विनायकस्य बाल्ये या वप्रक्रिया तटोत्खातक्रीडा ताभिरुदित जनित प्रमद सतोष पाथन प्रहारात् गाण्डीवताडनात् जनु जन्म यस्य तस्य प्रमद एवाम्बुराशे समुद्रस्य सबन्धी कण सूक्ष्मलेश अभूत् । ततोऽयत्र पुत्रवात्सल्याधिक्यादतिवेल देवस्तुष्टोऽभवदित्यर्थं । यत्तु ‘भूषणरूपेण वर्तमानाया गङ्गा यास्तटभूते स्खशिरस्येव विनायकस्य गजाननत्वात्तदीयवप्रक्रियाया किचिदपि वेदना न जातेति तात्पर्यम्’ इति नृसिह , तत्तदीयशिवविद्वेषिताविलसितमेव । यत पार्थप्रहारवेदनाया प्रसक्तिशून्याया विघ्नेशवप्रक्रियावेदनाधिक्यवर्णनाद्वात्सल्यरससविधानसरम्भिण कवेस्तात्पर्याननुरोधित्वात्प्रमदशब्देन वैदनालक्ष णाया मुरयार्थबाधादिति हेतुत्रयाभावाञ्चेति ॥ ९० ॥

 स इति । स प्रहारसाधन गाण्डीवदण्डोऽपि खाण्डवे । तद्दाहकाल इत्यर्थ । तक्षकस्य वध्वा वधे सावनतया चिर बहुफालात् अय अस्माक कुलस्य विरोधी शत्रु इति हेतो क्रोधनै क्त्रुद्धै तस्य देवस्य शभो जटा एव वन तस्मिन् कुटुम्बिभि निवासिभि कुण्डलिभि सर्पै भक्षित इवेत्युत्प्रेक्षा । तत्क्षण प्रथ मप्रहारक्षण एव नालक्ष्यत न दृष्ट । अर्जुनेनेति शेष । भगवत प्रभावात्सोऽष्यन्तर्हितोऽभूदित्यर्थ । लक्षते कर्मणि लड् ॥

 तत इति । तत गाण्डीवस्याप्यन्तधानाद्धेतो अय बाणचापतिरोधान दैव विपर्यय दैवप्रातिकूल्य क्रिम् । उत अमुष्य किरातस्य माया ऐन्द्रजालिक क्रिम् । उभयत्र किशब्दो वितर्के । इत्युक्तप्रकारेण चिन्ताथा परतन्त्रेण परा-


  1. ’नदी’ इति पाठ
  2. ‘तत्र स’ इति पाठ
  3. ‘तस्यैव देवस्य’ इति पाठ
  4. ‘उत’ इति नास्ति बचित्