पृष्ठम्:चम्पूभारतम्.pdf/१८९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८७
चतुर्थ स्तबक ।


रतन्त्रेणापि धैर्यदत्तहस्तोत्साहेन 'तिष्ठ तिष्ठ[१] जडात्मन् , एवमर्जुन निर्जित्य यशोऽर्जितुमिच्छसि’ इति कृततर्जनेन सितवाहनेन वृ[२]षवाहन प्रति नियोद्धुमारेभे ।

 परुषे मुनिमुष्टिताडने पतिते लुब्धकवामवक्षसि ।
 शिथिलाजगलु किरातिकाया सितगुञ्जामणिहारयष्टय ॥ ९१ ॥
 उपवासकृशे भृश मुनेरुरसि स्वीकृतमुष्टिमार्दव ।
 प्रजहार हरोऽपि पी[३]डनात्परिहर्तु स्वमिवास्य हृद्गतम् ॥ ९२ ॥

 इति परस्परमुष्टिप्रहारवृष्टिपरिसृष्टवनकुसुमपरागभस्माङ्गरागौ सरभसमेकेन बाहुना जटासु गृहीत्वापरेण [४]बाहुना वलयित[५]गलनालौ तौ शबरतपोधनौ यदा महत्यामधित्यकायामापतता तदा झटिति घटित-


वीनेन अपि धैर्येण सुखे दु खे वा विकृतचित्तात्मकेन दत्तहस्त कृतावलम्ब उत्साह रणोद्यम यस्य तेन । हे दुरात्मन् , दु खगम्य आत्मा स्वरूप यस्येति च । तिष्ठ तिष्ठ । एवम् । बाणचापतिरोधापनेनेत्यर्थ । अर्जुन निर्जित्य यश कीर्ति अर्जितु सपादयितु इच्छसीति काकु । त्वदिच्छा निष्फलैवेत्यर्थ । इत्युक्त- प्रकार कृत तर्जन भर्त्सन येन तेन सितवाहनेन अर्जुनेन धृषवाहन शिव प्रति नियोद्धुम्। तेन सह बाहुयुद्ध कर्तुमित्यर्थ । आरेभे उपक्त्रान्तम् । रभतेर्भावे लिट् ॥

 परुष इति । परुषे अतिकठिने मुने अर्जुनस्य मुष्टिताडने लुब्धकस्य किरातस्य वामवक्षसि वक्षोवामदेशे देव्या सबन्धिनि पतिते लग्ने सति शिथिला श्लथा किरातिकाया पार्वत्या सबन्धिन्य सितगुञ्जामणिमरय हारयष्टय सरा जगलु गलन्ति स्म । अर्धनारीश्वरस्य देवस्य वक्षोवामदेशाद्देवीवक्षसोऽनतिरे- कादिति भाव । औषच्छन्दसिकम् ॥ ९१ ॥

 उपवसेति । हरोऽपि उपवासेन अनशनव्रतेन कृशे मुने अर्जुनस्य उरसि अस्यार्जुनस्य हृद्रत मनसि स्थित खमात्मान पीडनात् प्रहाख्यथात पूरिहर्तु मोचयितुमिवेत्युत्प्रेक्षा । भृश स्वीकृत सुष्टौ । तत्प्रहार इत्यर्थ । मार्दव शैथिल्य येन तथोक्त सन् प्रजहार ताडितवान् ॥ ९२ ॥

 इतीति । इति उक्तप्रकारेण परस्परमुष्टिप्रहारैरेव युष्टया बर्षेण परिमृष्टौ क्षालितौ वनकुसुमपरागमयो भस्ममयश्च अङ्गराग ययोस्तौ एकेन बाहुना जटायु सरभस गृहीत्वा अपरेण बाहुना वलयित वेष्टित कण्ठनाल याभ्या तौ । पर स्परमित्यत्रापि योज्यम् । तौ शबरतपोवनौ किरातार्जुनौ महत्या अधित्य-


  1. ‘तिष्ठ’ इति नास्ति कचित्
  2. ‘वृषभवाहनम्’ इति पाठ
  3. ताडनात्' इति पाठ
  4. बाहुना।’ इति नास्ति कचित्
  5. ‘कण्ठनालौ’ इति पाठ