पृष्ठम्:चम्पूभारतम्.pdf/१९०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८८
चम्पूभारते


द्वारदरीगर्भनिरुद्वसि[१]द्धमिथुननि[२]बद्धहाहाकार[३]स्तीरवदूरोत्सर्पिवी[४]चीवेगोत्पाटिताकृष्टमुनिजनपर्णशालासहस्रसुरस्रवन्तीपूरो दर्वीकरविभुकधराखर्वीकरण[५]पटुभारोऽयमुर्वीधरपतिरासीत् ।

अवाड्झुखत्वेन निपात्य शभुना समुज्झितोऽय ददृशे विमोहित ।
तवाद्य जामातरि मे दशामिमा निवेदयेत्यद्रिमिव ब्रुवन्रह ॥ ९३ ॥

 पार्थस्य तस्य भुजयो परमेश्वरोऽसौ
  वीर्य विलोक्य युधि विस्मयमानचेता ।
 चापव्रणे सुरनदीफणसेकशङ्का-
  मप्युत्सृजन्मुहुरकम्पयदुत्तमाङ्गम् ॥ ९४ ॥


काया हिमशैलोध्र्वभूमौ यदा आपतता पतत स्म । तदा तावदेव अय उर्वाधरपति हिमवान् झटिति सत्वर घटित पिहित द्वार यासा तासाम् । तत्पतन क्षोभादिति भाव । सवत्र दरीणा कन्दराणा गभेषु म येषु निरुदै सिद्धाना देवयोनिविशेषाणा मिथुनै द्वन्दू निबद्धा उदीरिता हाहाकारा यस्मिन् तथोक्त । तीरयोर्वनेषु दूरमुत्सपिणीना व्याप्नुवन्तीना वीचीना तरङ्गाणा वेगेन उत्पाटितानि उन्मूलितानि आकृष्टानि च मुनिजनाना पर्णशालासहस्राणि येन तादृश सुरस्रवन्त्या गङ्गाया पूर प्रवाह यस्मिस्तथोक्त दर्वीकराणा सर्वाणा विभो शेषस्य क्धराणा श्रीवाणा सर्वीकरणे भुग्नीकृतौ पटु समर्थ भार यस्य तथो क्तश्चासीत् । यत्तृत विवेयत्रयस्य उपसर्जत्वेन नृसिंहप्रलपितम्, तदविमृष्ट विधेयाशत्वदोषापत्तेरुपेक्ष्यम् ।

 अचाब्युस्वेति । शभुना किरातवेषेण अवाङ्मुखत्वेन निपात्य । अधोमुख यथातथा पातयित्वेत्यर्थ । समुज्झित त्यक्त । बाहुभ्यामिति भाव । अतएव विशेषेण मोहित मूर्च्छा गमित अय अर्जुन । हे ’ अद्रे, तव जामातरि कन्याभर्तरि शभौ विषये मे मम इमा दशा अवस्था निवेदय विज्ञापय इत्युकप्रकार अद्रि हिमगिरि प्रति रह ब्रुवन् कथयमिवेत्युत्प्रेक्षा । ददृशे दृष्ट । तत्रत्यैरिति शेष ॥ ९३ ॥

 पार्थस्येति । असौ परमेश्वर शभु युधि युद्धे तस्य पार्थस्य भुजयोर्वीर्थ विलोक्य विस्मयमान चेत यस्य तथोक्त सन् । अतएव चापेन गाण्डीवेन यद्रण तस्मिन् सुरनदीकणै गङ्गाजलबिन्दुभि सेके उक्षणे विषये शङ्का वितर्कमपि उत्सृजन् अगणयन् सन् । आर्द्रव्रणे शीतजलसेकस्यातिवेदनाकरत्वमप्यचिन्तयन्निति यावत् । उत्तमाङ्ग शिर मुहुरकम्पयत् । श्लाधयामासेत्यर्थ ।


  1. ‘सिद्धमुनि’ इति पाठ
  2. निबद्ध’ इति नास्ति कचित्
  3. तीरवण’ इति पाठ
  4. वीचि” इति पाठ
  5. ‘पटुतरभागे’ इति पाठ