पृष्ठम्:चम्पूभारतम्.pdf/१९३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९१
चतुर्थ स्तबक ।


[१]पुलकाङ्कुर सविनयमुपसृत्य पादारविन्दयो सहस्रकृत्व प्राणसीत् ।

 स्वामिन्मया जडधिया त्वयि दे[२]वदेवे
  वाचा शरेण धनुषा दृढमुष्टिना च ।
 यत्ते चतुर्विधमकारि रणे तदाग
  क्षन्तव्यमद्य भवता करुणार्णवेन ॥ ९५ ॥

 इति विज्ञापयन्तमेन पारिजातपल्लवतल्लजप्रतिमल्लस्य [३]पाणितलस्य परामर्शनेन प्रभुषि[४]तव्रणवेनाङ्ग पलवगकेतनमनङ्गशासनोऽप्येवमवादीत् ।

यथा तृतीयेन युधि प्रवीर तवापराधेन भवामि तु[५]ष्ट ।
तथा न भक्तया तपसा विभूत्या तरुप्रसूनार्चनया च[६] बहव्या ॥ ९६ ॥

 इति [७]सुधामाधुरीधुरीण वचनमभिवाय ।


णा नदीजलवविता इवाचरन्त पुलकाङ्कुरा यस्य तथाक्त सन् । सविनय यथातया उपसृत्य पादारविन्दयो महादेवपादपद्मयो सहस्रकृत्व सहस्रवार प्राणसीत प्रणामानफरोत् । नमते कर्तरि लुड् ॥ ९४ ॥

 स्वामिन्निति । हे स्वामिन् महादेव, रणे युद्धे देवदेवे त्वयि विषये जडधिया मूटबुद्धिना मया (कर्त्रा) वाचा शरेण वनुषा दृढमुष्टिना (करणेन) चतुविध यत् आग अपराध ते तव । त्वा प्रतीति यावत् । अकारि कृतम् । तत् चतुविघ्रमाग करुणार्णवेन दयासमुद्रेण अतएव भवता अद्य क्षन्तव्यम् ॥ ९५ ॥

 इतीति । इति उक्तप्रकारेण विज्ञापयन्त क्षमापयन्त पारिजातस्य पल्लवतजस्य श्रेष्ठकिसलयस्य प्रतिमल्लस्य प्रतिवीरस्य । तत्सदृशस्येति यावत् । पाणितलस्य परामर्शनेन प्रमुषिता निरस्ता व्रणै निजशरकृतै वेदना येषा तादृशान्यङ्गानि यस्य त प्लवग हनूमान् केतने यस्य त अर्जुन प्रति अनङ्गशासन महादेवोऽपि एव वक्ष्यमाणविवया अवादीत् उक्तवान् । वदते कर्तरि लुड् ॥

 यथेति । हे प्रवीर, तव सबन्विनायुधि तृतीयेन अपराधेन चापकृतेन यथा तुष्टोभवामि, तथा महत्या भक्तया तपसा विभूत्या समृध्द्या तरूणा प्रसूनैरर्चनया वा तुष्टो न भवामि । शौर्यादन्यन्न शूराणामभ्यर्हिततममिति भाव । उपेन्द्रवग्रा ॥ ९६ ॥

 इतीति । इति उक्तप्रकार सुवाया अमृतस्य माधुर्या मधुरत्वस्य धुरीण भारवह वचन अभिधाय उक्वा । इत्युत्तरेण सबध्यते ॥


  1. ‘पुलकप्ररोह ’ इति पाठ
  2. ‘देवदेव' इति पाठ
  3. ‘पाणिपल्लपस्य’ इति पाठ
  4. ‘रणवेदना’ इति पाठ
  5. ‘हृष्ट ' इति पाठ
  6. अपि’ इति पाठ
  7. ‘सुधामधुरिमधुरीण’ इति पाठ