पृष्ठम्:चम्पूभारतम्.pdf/१९४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९२
चम्पूभारते


[१]त्क्षणाद्धनुरिपूनपि तास्ता[२]न्सनिधाप्य विभुरस्रमपि स्वम् ।
पाण्डवाय धनुराहतिरीते पारितोषिकमिव प्रदिदेश ॥ ९७ ॥
 तस्याथ पाशुपतलाभदुरापदीप्ते-
  [३]क्ष्णो समक्षमपरिप्लवपक्ष्मपङ्क्ते ।
 आश्चर्यवृत्तिरखिलैरनुगामिभि स्वै-
  रन्तर्दधे स भगवानमृताशुमौलि ॥ ९८ ॥

 इत्यनन्तभट्टकविकृतौ चम्पूभारते चतुर्थ स्तबक ।


 तत्क्षणादिति । विभु व्यापक अनिर्वाच्यमहिमा शभु तदेव धनु अन्तर्हित गाण्डीवम् । न त्वन्यदित्यर्थ । तानेव इषून् बाणग्नपि पाण्डवाय । अर्जुनायेत्यर्थ । सनिवाय सविधि प्रापरय। दत्त्वेति यावत् । अनुराहते गाण्डीवताडनस्य या रीति फक्ति (४) तस्या पारितोषिक परितोषदानामिव ख स्वकी यमपि अस्रम् । पाशुपतमित्यर्थ । क्षणात् प्रदिदेश दत्तवान् । दिशे कर्तरि लिट् । उत्प्रेक्षालकार ॥ ९७ ॥

 तस्येति । अथ पाशुपतदानानन्तरम् । आश्चर्या वृत्ति चरित्र यस्य तथोक्त । तत्तादृगपकारिणि कारुण्यस्य कुत्रायदृष्टचरत्वादिति भाव । अमृताशुमौलि चन्द्रचूड स भगवान् महादेव पाशुपतस्य नामात्रस्य लाभेन दुरापा शत्रुदुनिरीक्ष्या दीप्ति प्रभा यस्य तथोक्तस्य अपरिप्लवा निमेषोन्मेषराहित्यादचञ्चला पक्ष्मणा पङ्त्त्यो यस्य तथोक्तस्य तस्य अर्जुनस्य अक्ष्णो समक्ष पुर एव अखिलै स्वै स्वीयै अनुगामिभि भूत्यै प्रमथै सह अन्तर्दधे अन्तर्हितवान् ॥ ९८ ॥

इति श्रीसदाशिवपदारविन्दवन्दनानन्दसान्द्रस्य कुरविकुलचन्द्रस्य

रामकवीन्द्रस्य कृतौ चम्पूभारतव्यारयाने लास्याभिधाने

चतुथ स्तबक ।


  1. ‘तत्क्षणम्' इति पाठ
  2. ‘सनिधाय' इति पाठ
  3. ‘अक्ष्ण ’ इति पाठ