पृष्ठम्:चम्पूभारतम्.pdf/१९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९६
चम्पूभारते

 [१]थ कदाचिद[२]स्त्रशिक्षासमाप्तौ [३]गुरुसमक्ष गुरुदक्षिणात्वेन विपक्षकुलक्षपण भिक्षमाणेन सहस्राक्षेण स्वमस्तकादाक्षिप्य शिरसि निक्षिप्तकिरीटो वलक्षाश्वोऽय मातलिपरिकल्पितरथ्येन नन्दनवनमन्दपवनसदीयमानकेतनस्पन्दनेन स्यन्दनेन निर्गत्य विलङ्धितदूरवियत्पथ पाथोनिधौ [४] रक्ष कुलकोलाहनीचीकृतवीची[५]रव रसातलकुहरमुख निरुध्य रणप्रस्ताव वितस्तरे ॥

 तावदनाकर्णितपूर्वगाण्डीवविस्फारक्ष्रवणादहपूर्विकया युगपद[६]भिषेणनयतो दिविषदवध्यभावादध्यातमरणान्क्षि[७]प्र क्षुरप्रैर्विश्राणितविवरादुरस कृतप्रयाणै प्राणैस्त्रिकोटिशो निवातकवचानपि प्रवात-


 अथेति | अथ कदाचित् वलक्षा श्वेता अश्वा रथ्या यस्य स अयमर्जुन अस्त्रशिक्षाया अस्त्रविद्या यापनस्व समाप्तौ सत्या गुरुसमक्ष सुराचार्यसमक्ष गुरोर्द्क्षिणात्वेन दक्षिणारूपेण विपक्षकुलस्य निवातकवचकालकेयाख्यराक्षसवृन्दस्य क्षपण वध भिक्षमाणेन याचमानेन सहस्र अक्षीणि यस्य तेन इन्द्रेण | 'बहुव्रीहौ सक्थ्यक्ष्णो - ' इति षच् | स्वस्य मस्तकात् शिरस आक्षिप्य अवमुच्य | अत्रार्थात् किरीटस्यैव कर्मत्वम् | शिरसि निक्षिप्त न्यस्त किरीट यस्य तथोक्त सन् | मातलिना इन्द्रसारथिना परिफ़लिना सयोजिता रथ्या रथवाहा यस्मिंस्तेन स्यन्दनेन इन्द्ररथेन निर्गत्य प्रस्थाय विलङ्घिता दूरक्ष्च वियत्पथ आकाशमार्ग येन् तथोक्त सन् पाथसा जलाना निवौ समुद्रे रक्ष कुलाना राक्षसवृन्दाना कोलाहै कलकलध्वनिभि नीचीकृत खल्पीकृत | अन्तर्घापित इति यावत् | वीचीना सामुद्रीणा रव यस्मिंस्तत् रसातलकुहरस्य पातालबिलस्य मुख अग्र भागम् | द्वारमिति यावत् | निरुध्य रणस्य प्रस्ताव प्रसङ्ग धनुष्टङ्कारादिक वितस्तरे विस्तारितवान् | स्त्रुणातेर्विपूर्वात्फर्तरि लिट् | अत्र विपक्षक्षपणे गुरुदक्षिणात्वेना रोपस्येन्द्रमुखोपयोगाद्घनरूपगुरुदक्षिणायास्तत्रानुपयोगाच्च परिणामालकार |

 तावदिति | तावत् तदानीमेव अनाकर्णितपूर्वस्य पूर्वमश्रुतस्य गाण्डीवस्य सवन्धिन विस्फारस्य टङ्कारस्य 'विस्फारो धनुषा स्वान' इत्यमर | श्रवणात् अहपूर्विकया अहपूर्वमहपूर्वमित्यहकारेण युगपत् एकदा अभिषेणनयत युध्दाय सेनया सहागच्छत | 'यत्सेनयाभिगमनमरौ तदभिषेणनम्' इत्यमर | अभि षेणनाशब्दात्करोत्यर्थे णिजन्तल्लट शतृप्रत्यय | दिविषदा देवाना अवध्यभावात् हन्तुमशक्यत्वात् हेतो | अघ्यात अचिन्तित मरण यैस्तान् निर्गतो वात वायु-


  1. 'अथ इति नास्ति कचित्
  2. 'अस्त्रविधाशिक्षापरिसमाप्तौ' इति पाठ
  3. 'सुर' इति पाठ
  4. 'गम्भीरनीरपूररक्षितरक्ष' इति पाठ
  5. 'रव' इति पाठ
  6. 'अभिषेणनवत' इति पाठ
  7. 'क्षिप्रै' इति पाठ