पृष्ठम्:चम्पूभारतम्.pdf/२०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०२
चम्पूभारते


 इत्युक्त एष परिघ धरणौ निधाय
  वल्क दृढ च परिधाय भुजार्गलाभ्याम् ।
 त क्रष्टुमेव न शशाक स तु प्लवङ्गे
  बालस्थया घनतयास्य मनश्चकर्ष ॥ २४ ॥

 तदनु वि[१]स्मयव्रीलापारदृश्वना मातरिश्वसूनुना ‘त्व वासवलोकवासिषु कोऽसि’ इति पृष्ट कपिकुञ्जर स्वमञ्जनाया प्रभञ्जनेन [२]सजातं जानकीजानेर्ह्रदयरञ्जफ ले[३]खवाहक व्याजहार ॥


प्राप्त तिर्यक्च तिर्यग्योनित्वम् । वानरखमिति यावत् । साचित्वेन वर्तमानत्व च येन त एन मा वालाग्रे विकृष्य। मदूलाग्रमन्यतोऽपसार्येत्यर्थ । अभिलषितस्य वाञ्छिताथस्य प्राप्तये द्रुत साधय गच्छ इत्युक्तप्रकारेण ऊचे इति पूर्वेणान्वय । हिडिम्बहन्तुरिति खबलप्रख्यापनात् तादृग्बल यदि तव तर्हि बालाग्र चालयसि चेज्जानीया तदिति हासरसोऽत्रानुसधेय ॥ २३ ॥

 इतीति । इति उक्तप्रकार उक्त । हनूमतेति शेष । एष भीम परिघ गदां धरणौ निधाय वल्क वल्कल च दृढ परिधाय सवेष्टय भुजे अर्गले इव ताभ्या त हनूमतो बाल क्रष्टुमेव न शशाक न शक्तवान् । किमुतापसारयितुमिति भाव । स प्लवङ्ग हनूमास्तु बालस्थया घनतया माहात्म्येन अस्य भीमस्य मनश्चकर्ष । खस्य नागायुतबलस्यापि बालाग्रमात्रचालनाशक्तया दुर्विज्ञेयमस्य माहात्म्यमिति विस्मितोऽभूदित्यर्थे ॥ २४ ॥

 तदन्विति । विस्मयस्य श्लोकोत्तरानुभावदर्शनजन्यस्य व्रीलस्य अहकार भङ्गजन्यलज्जायाश्च पारदृश्वना अन्तगामिना। तदुभयसान्द्रेणेति यावत् । मातरिश्वसूनुना भीमेन हे महानुभाव, त्व वासवलोकवासिषु देवेषु । तन्मध्य इत्यर्थ । को देवोऽसीति पृष्ट कपीना कुञ्जर श्रेष्ठ हनूमान् स्व आत्मान प्रभञ्जनेन वायुना अञ्जनाया नाम वानर्या सजात जानकी जाया यस्य तस्य जानकीजाने श्रीरामस्य हृदयरञ्जक चित्ताह्लादक लेखाना लिखितपत्राणा वाहक नेतारं व्याज- हार उक्तवान् ॥


अरातिसघातनिघातकमण्यवालहस्तो मम बालहस्तम् ।
उद्धृत्य याहि द्रुतमुत्तरत्रेत्युक्त्यैव स क्षतिमुपाजहार ॥'

इति श्लोक कचिद्दृश्यते

  1. ‘विनयविस्मबव्रीडा इति पाठ
  2. ‘सजनितम्’ इति पाठ
  3. लेखवाइम्’ इति पाठ