पृष्ठम्:चम्पूभारतम्.pdf/२०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०७
पञ्चम स्तबक ।


 पर्वतस्याग्रवस्तुभ्य प्रवस्तु नेच्छतीं दृशम् ।
 उत्खाय स महायत्नादुपासीददुपत्यकाम् ॥ ३६ ॥

 तदानीमितरेष्वपि भ्रातृषु कमलपालिकासूनो स्कन्धभागशिबिकामधिरुह्य तस्यैव कटक[१] भुवमागतेषु सत्सु मारुतिरादरेण रहसि [२]ता विकसिता कुसुमसहति मूर्तानुरागभ्रमदा प्रमदा प्रत्युपदामकरोत् ।

 सरसीव कचेऽप्यस्या धार्तराष्ट्राकु[३]लीकृते ।
 ऊषे तया वरतनोरूर्मिमत्यलिभासुरे ॥ ३७ ॥[४]


 पर्वतस्येति । स भीम पर्वतस्य गन्वमादनस्य अग्रे शिखरे वस्तुभ्य मणिकुञ्जपुञ्जादीन् विहायेति ल्यब्लोपे पञ्चमी । प्रवस्तु अन्यत्र गन्तु नैच्छती अन भिलषन्तीम् । नर्ञ्थस्य नशब्दस्य सुप्सुपेति समास । दृश दृष्टि यत्नात् अतिकष्टात् उत्खाय आहत्य । उपत्यका अद्रेरासन्नभूमिं उपासीदत् प्राप्तवान् । दृशमुत्खायेत्यनेन पर्वताग्रवस्तूना लोकोत्तरप्रतीतेर्वस्तुना वस्तुध्वनि ॥ ३६ ॥

 तदानीमिति । तदानी उपत्यकाप्राप्तिसमय एव । इतरेषु भ्रातृषु युधि ष्ठिरादिष्वपि कमलपालिकाया हिडिम्ब्या सूनो घटोत्कचस्य स्कन्धभाग भुजाप्रमेव शिबिका प्रियया द्रौपद्या सह अघिरुह्य । तस्य गन्धमादनस्यैव कटकभुव नितम्बप्रदेश आगतेषु प्राप्तवत्सु सत्सु । मारुति भीम मूर्तस्य शरीरधारिण अनुरागस्य भ्रम ददातीति तथोक्ताम् । आरुण्यादिति भाव । ता विकसिता कुसुम सहृति कहारवृन्द रहसि प्रमदा प्रत्यादरेण उपदा उपायन अकरोत् । क भीमोऽद्य इत्याध्यायन्तो युधिष्ठिरादय चिन्तामात्रसनिहितेन घटोत्कचेन गन्धमादन नीता इति भारती कथात्रानुसधेया ॥

 सरसीति । धार्तराष्ट्रेण दु शासनेन धार्तराष्ट्रै नीलहसैश्च आकुलीकृते ऊर्मिमति कौटिल्यवति तरङ्गवति च अलिवत् अलिभिश्च भासुरे । अस्या वरतनो द्रौपद्या केशेष्वपीति जात्येकवचनम् । सरसि कङारवापिकायामिव तया कुसुमसहत्या ऊषे उषितम् । वसतेर्भावे लिट् । श्लिष्टविशेषणेयमुपमा । इमाम् ‘सरूपशब्दवाच्यत्वात्सा सरूपोपमा मता' इति लक्षयित्वा दण्डी सरूपोपमेति व्यवजहार ॥ ३७ ॥


  1. ‘भुव’ इति नास्ति कचित्
  2. ‘ताम्’ इति नास्ति क्कचित्
  3. ‘कुलीकृते’ इति पाठ
  4. एतदनन्तरम् ‘इति सौगन्धिकाहरणम्’ इति कचित्,