पृष्ठम्:चम्पूभारतम्.pdf/२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९
प्रथम स्तबक ।

निन्द्यते पितृभिस्तप्तैर्निरपत्यधन पुमान |
अध्वनीनैरतिरन्तैरवकेशीव पादप ॥ ३५ ॥
कदापि तातशब्दस्य कल्पभूमिरुहामिब |
नार्थीभवितुभर्हामि नरवाहनसनिभ ॥ ३६ ॥

कि भोगवैभवयश क्षितिजीविताद्यै-
 रम्भोरुहाक्षि नियमैरनघैस्त्वमेव |
शापातिरेकदवपावकशयिनो मे
 तापापनोदविघये तनय प्र[१]सुष्व ॥ ३७ ॥

इत्यसकोचत शोचत पत्युरप्रभुवि समग्रसन्दाक्षरमणिय मन्दाक्षरभरणियन्नितमिद वचन पृथापि कथयामास |


 निन्द्यत इति निर्गतमपत्यमेव वन यस्व सोऽपुत्र पुमान् तत्पैर्लुप्तपिण्डोदकक्रियस्तया दु खितै पितृभि पूर्वै अवकेशि निष्फल पादपो वृक्षोऽतिश्रान्तैरध्वनीनै पथिकैरिव निन्द्यते | निन्दते कर्मणि लट् | 'एष वा अनृणो य पुत्री' इति श्रुते | अपुत्रस्य पितृक्क्ष्र्णापाकरणायोगादिति भाव| युग्मविपुलानामानुष्टुमवृत्तम-'यस्या ल सप्त युग्मे स्यात्सा युग्मविपुला मता' इति लक्षणात्| अस्य च वक्रविशेषत्वात्-'वक्त्त नाधान्नसो स्यातामव्धेर्योऽनुष्टुभि ख्यातम्' इती तरत्र तलक्षण बोध्यम् ॥ ३५ ॥

 कदेति | नरवाहनेन कुबेरेण सनिभस्तुल्य अह तातेतिशब्दस्य जनकवाचकस्य कल्पभुमिरुहा कल्पक्षाणामिवार्थीभवितु वाच्यीभवितुम् अर्थी याचको भवितु च कदापि नार्हामि | अतो धनाढथस्य याव्चाया इवापुत्रस्य तातेति व्यवहारास्याप्ययोगादित्यर्थ | यत्तु 'अपुत्रस्य स्वर्गाभायेन तत्रत्यकल्प्पृक्षप्रार्थना दुर्लभा' इति, यदपि 'कुबेरवद्विद्यमानभैक्ष्वर्य पुत्रभावाविष्फलम्' इति नृसिह, तदुमवमप्यनादरणीयम् | नरवाहनसनिभ इति साद्यक्योपयोगिनो वैयर्थ्यापत्तेरुत्तरक्ष्लोके पौनरुत्तेक्ष्चेति ॥ ३६ ॥

 किमिति भोग स्त्रवचन्दनदनिवाद्यनुभव, वैभवमैश्वर्यम्, यशो दानपालनक्षात्रजन्या कीर्ति, क्षिति भू राज्यमिति यावत् जीवित् प्राणधारणम्, एतान्याधानि येषा तैरर्थै शापस्य किदभदयत्तस्यातिरेकोऽतिशय स एव दवपाको दवाग्निस्तस्मिञ्शेते इति शायिन । ताछीलिको णिनि | मे मम किम् | कार्यमिति शेष | ताद्दग्विधस्य मे तापस्यापनोदनबिधये निरासाय हे अम्भोगेरुहाक्षि, त्वमेवानघैर्भर्त्रनुज्ञातत्वेन निर्दोर्षेर्नियमैस्तनय प्रसुष्व जनये | सुवते प्रार्थनाया लोट पुत्रसपादभोगस्य शापेनापेतत्वादिति भाव ॥ ३७ ॥

 इतीति इत्युक्तग्रकारेणावासकोच निर्लज्ज यदा तदा शोचतो दु खायमा-


  1. 'प्रसुध्व' इति पाठ