पृष्ठम्:चम्पूभारतम्.pdf/२१०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०८
चम्पूभारते ।

 अथ कदाचिदाखेटाय तटाटवी पर्य[१]टति तस्मिन्बकद्विषि जटो नाम दु[२]र्जट सुरारिरुटजमुपेत्य वेदिकया वैतानतनूनपात इव दयितया सह त्रीनपि तान्वीरान्स्कन्धमानीय जवात्केनचिद[३]पदिशपथेन प्रतस्थे ॥

गतागते तत्र घटोत्कचेन जटेन च स्कन्धधूतस्य राज्ञ ।
पादार्पणालाभशुचा वन तत्पतत्रिनादैरिव रोदिति स्म ॥ ३८ ॥
वन यियासो कठिने सभान्ते जटासु रोधो न बभूव यस्य ।
वने विनृम्भत्करुणे तु तस्य जटासुरोऽवोऽजनि धर्मसूनो ॥ ३९ ॥


 अथेति । अथानन्तर कदाचित् तस्मिन् बकद्विषि भीमे आखेटाय मृगया कर्तुमिति । ‘क्रियार्थ- इत्यादिना चतुर्थी । तटे गन्धमादनप्रपाते अटवी पर्यटति परित सचरति सति । दुर्जट पारुष्यहस्वादिना दुष्केश । जटो नाम सुरारि राक्षस । उटज युधिष्ठिरपर्णशाला एत्य दयितया द्रौपद्या सह त्रीनपि तान् वीरान् युधिष्ठिरनकुलसहदेवान् वेदक्या सह वैतानान् यजीयान् तनूनपात आहवनीयगार्हपत्यदक्षिणामीनिव स्वन्व भुजाग्र आनीय प्रापरय। केनचित् दुर्ज्ञेयेन अपदिशेन वैदेशिकेन पथा मार्गेण । ‘ऋक्पू -' इत्यादिना समासान्तोऽत्प्रत्यय । प्रतस्थे । उपमालकार ॥

 गतेति । तत्र गन्धमादनवने गत निर्गमन च आगत आगमन च गतागत मिति नपुसकद्वन्द्वैकवद्भाव । तस्मिन् । गते आगते चेत्यर्थ । क्रमोऽत्र न विवक्षित । ततश्च आगते घटोत्कचेन गते जटेन च स्कन्धे वृतस्य राज्ञ युघिष्ठिरस्य पादयो अर्पणाना विन्यासाना अलाभेन अप्राप्त्या या शुक् दु ख तया तद्वन पतत्रिणा जटासुरगतिक्षुब्धपक्षिणा नादै । कलकलव्याजेनेत्यर्थ । रोदिति सम रुरोदेवेत्युत्प्रेक्षा । सापह्नवा च । महता पादस्पर्शस्याभाग्यदुर्लभत्वादिति भाव ॥३८॥

 वनमिति । कठिने निष्करुणे । खलभूयिष्ठ इति यावत् । सभान्ते दुर्योधनसभाया वन यातुमिच्छो यियासो यस्य वर्मसूनो युधिष्ठिरस्य । जटासु जटा धारणविषये रोध नेमास्त्वदुचिता इति निषेव न बभूव । कितु विजुम्भती करूणा शोकरस मृक्षविशेषश्च यास्मिंस्तस्मिन् वने गन्बमादने ॥ ‘करुणो ना पृक्षभेदे रसे च करुणा कृपा’ इति रत्नमाला । तस्य धर्मसूनो जटासु रोध कण्टकिशाखास्ताकषेणच अजनि बभूव।‘जटा सटाया शाखायाम्’ इति विश्व । अत्र वृक्षशोकयो सटाशाखयो निषेधाकर्षणयोश्च जटासुरोधकरणशब्दश्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तया अचेतनस्यापि वनस्य कारुण्याधायिनि धर्मराजजटाधारणे सचेतनस्यैव दुर्योधनादे कारुण्यानुदयेन लोकैकविलक्षण दौरात्म्यमिति प्रतीते-


  1. ‘अटति’ इति पाठ
  2. ‘दुर्घट ’ इति पाठ
  3. ‘अपदिशा’ इति पाठ