पृष्ठम्:चम्पूभारतम्.pdf/२१६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१४
चम्पूभारते


हस्तै प्रवीणैरखिलेऽपि कर्णे सुधा विमुञ्चन्सुरगायिवर्ग ।
अयुक्तमेतत्पुनरत्र कर्णे वि[१]पाठवर्ष विससर्ज घोरम् ॥ ५४ ॥

तदनु विश्वातिशायिनो [२]विश्वावसुकुमारस्य शरगणेन सह जबकृते कृतपणबन्ध इव धावति राधेये क्रन्दत्सु कुरुवृन्देषु च सर्वेऽपि गर्वेण गन्धर्वभटा सुयोधनमायोधनवर[३]णीमध्यभाज [४]रश्मिभिरवबध्य गर्जन्तो रभसवर्ज निर्जरपथमनैषु ॥

नयत्स्वमु वैरिषु नाकमार्ग विषादभाजा विपिने कुरूणाम् ।
तत्ता[५]दृशि व्रीलभरेऽपि तेषामुत्तानभाव न जहुर्मु[६]खानि ॥ ५५ ॥


 हतैरिति । सुरगायिपर्ग गन्धर्वसघ प्रकृष्टा वीणा येषु तै युद्धनि पुणैश्च हस्तै अखिले सर्वस्मिन् कर्णे श्रोत्रे सुधा गानामृत विमुञ्चन् वर्षन्नपि सन् । अत्र कर्णे अस्मिमेकस्मिन् श्रोत्रे राधेये च । घोर विपाठाना बाणविशे षाणा वर्ष विससर्ज ववर्ज इति यत्त् , तदेव तत्पुनरयुक्तम् । अत्र सुधावर्षकाद्धस्तात् बाणवर्षवर्णनाद्विरुद्धकार्योत्पत्तिरूपो विषमप्रभदो राधेयश्रोत्रयो क्र्णशब्द श्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तयनुप्राणित इति द्वयोरङ्गाङ्गिभावेन सकर । उपजाति ॥ ५४ ॥

 तदन्विति । तदनु विश्व बनुर्धरप्रपञ्च अतिशेत इति विश्वातिशायिन । विश्वावसुकुमारस्य चित्रसेनस्य शरगणेन सह । जवकृते वेगार्थ कृत पणबन्धो येन तादृश इवेत्युत्प्रेक्षा । राधेये कर्णऽपि वावति सति । कुरुवृन्देषु कौरवव्यूहेषु क्रन्दत्सु स्दत्सु सत्सु च। सर्वे गन्धर्वभटा । अपिस्खर्य । गर्वेण दुरह्कारेण आयोधनधरणीमध्यभाज युद्धभूमव्यवर्तिन सुयोधन रश्मिभि पाशै अवबध्ग गर्जन्त निर्जरपथ आकाश प्रति रभसवी मन्द अनैषु प्रापयामासु । युधिष्ठिरादयोऽपि सुयोधनादीना बन्धन दृष्ट्वा हर्षमाप्नुयुरिति मन्दमनैषुरिति भाव । रभसवर्ज हषशून्यमिति दुर्यो वनविशेषणमिति केचित् ॥

 नयत्विति । वैरिषु शत्रुषु गन्धर्वेषु अमु दुर्योधन नाकमार्ग आकाश मार्ग प्रति नयत्सु सत्सु । विपिने अरण्ये विषाद दु ख भजन्तीति तद्भाजा तेषा कुरूणा कौरवाणा मुखानि (कर्तुणि) तत्तादृशि असध्शे व्रीलभरे लज्जाति शये सत्यपि । उत्तानभाव ऊर्ध्वतयावस्थान न जहु न मुमुचु । दु खेन मुखान्युन्नम्य मुहुर्मुहुरपश्यन् दुर्योधनमित्यर्थ । अत्र नमनकारणस्य लज्जाभ रस्य सत्त्वेऽपि तदनुदयवर्णनाद्विशेषोक्तिरलकार ॥ ५५ ॥


  1. ‘विंषाकवर्गेम्’, ‘विषक्तवषम्’ इति च पाठ
  2. ‘च' इति नास्ति कश्चित्
  3. ’धरणि' इति पाठ
  4. “रज्जुभि ’ इति पाठ
  5. ‘मार्गाम्’ इति पाठ
  6. ‘तादृशे त्रीडभरे’ इति पाठ