पृष्ठम्:चम्पूभारतम्.pdf/२१८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१६
चम्पूभारते


 इति ताभिर्दानभाव पुरोधाय निवेदितस्य राज्ञो निदेशेन निर्गत्य सत्वरमनुधावता भ्रूदण्डमिव कोदण्डमपि कोपेन कुटिलीकुर्वता भीमप्रभृतीना क्ष्वेलितविस्फाराभ्या तत्क्षण वियखिल वि[१]कस्वरनिजगुणमासीत् ।

 [२]अर्जुनस्त्वेवमुवाच ॥

क गायका यूयमुपात्तवीणा क चापधुर्या कुरुवशभूपा ॥
अहो रणे चापलमीदृश व स्वमूलक वा परमूलक वा ॥ ५९ ॥
वृषाङ्कमौलेर्व्रणचिह्नदायी वने ज[३]नोऽस्मिन्वसतीति वार्ता ।
पपात कर्णे भवता न किचिद्यदीदृश साहसमातनुध्वे ॥ ६० ॥
  


त्वत्तुल्यस्य करुणाकरस्यान्यस्य लोके दुर्लभत्वादिति भाव । पाद शरण रक्षितार गताना प्राप्ताना स्नुषाणा भ्रातृवधूना न अस्माक कण्ठस्य भुवि देशे । मङ्गल सूत्रिकाया माङ्गल्यसूत्रस्य वास्तव्यता नैरन्तयण स्थिति दातु प्रसीद अनुग्रह कुरु ॥ ५८ ॥

 इतीति । इत्युक्तप्रकार दीनाना भाव दैन्य पुरोधाय अग्रे कृत्वा । सदै न्यमिति यावत् । ताभि दुर्योवनान्त पुरिकाभि निवेदितस्य विज्ञापितस्य राज्ञ धमराजस्य निदेशेन आज्ञया निर्गत्य पर्णशालातो बहिरागत्य सत्वर अनुसृत्य वावता कोपेन भ्रू दण्ड इव तमिव कोदण्ड चापमपि। त च त चेत्यर्थ । कुटिली कुर्वता बक्र कुर्वताम् । एकत्र भ्रुकुटीरचनेन, अन्यत्र गुणाकर्षणेन चेति भाव । भीम प्रभृति आदि येषा तेषा भीमार्जुननकुलसहदेवाना क्ष्वेलितविस्फा राभ्यासिंहनादचापनादाभ्या तस्मिन्नेव क्षणे तक्षणम्। धर्मराजाज्ञाक्षण एवेत्यर्थ । अत्यन्तसयोगे द्वितीया । अखिल वियत् आकाश विकस्वर प्रवृद्ध निज स्वीयश्च गुण शब्द यस्मिन् तादृश आसीत् । ‘निजमात्मीयनित्ययो ’ इति विश्व । ‘शब्दगुणकमाकाशम्’ इति तार्किका ।

 ‘अर्जुनस्त्वेवमुवाच इति क्कचित्पुस्तकेषु पाठ । एव वक्ष्यमाणप्रकारेण ।

 क्केति । उपात्ता हस्ते धृता वीणा यैस्ते । अनाघ्रातचापगन्धा इत्यर्थ । हे गायका , यूय क्क । चापधुर्या धनुर्धरीणा कुरवशभूपा वय क्क। अत रणे युद्धे ईदृश व युष्माक चापल तृष्णा स्व स्वीयायोचनमेव मूल यस्य तथोक्त तत्क वा उत पर परालोचन मूल यस्य तथोक्त वा । अहो इत्याश्चर्ये । अविवेक कृतत्दाश्चर्यम् । नेद वीणाभिर्गानम् , कितु शरै शरीरतक्षक युद्धमित्यर्थं । उपेन्द्रवज्रा ॥ ५९ ॥

 वृषेति । वृषाङ्कस्य शभोरपि मौलौ व्रणेन चिड्ल ददातीति दायी । जन


  1. ‘विकस्वरम् ' इति पाठ
  2. ‘अजुनस्त्वेवमुवाच' इति नास्ति क्कचित्
  3. ‘अजुन ' इति पाठ