पृष्ठम्:चम्पूभारतम्.pdf/२१९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१७
पञ्चम स्तबक ।

भीताधुनासौ न विसृज्यते चेत्तथात्र सनह्यतु गाण्डिवो मे ।
यथा महेन्द्र परिगृह्य वीणा स्वबाहुकीर्ति स्वयमेव गायेत् ॥ ६१॥
  

 इति विजयस्य वीरवादेन पुनरपि निवर्तमानैर्वीणामसेषु निवध्य बाणासनमेव [१]करे कूजयद्भिस्तैर्नभश्चरै सममेषा सकलवैमानिकपरिषदङ्ग रुझवितीर्णनिद्राभङ्गो महान्सगरोऽभूत् ॥

 गम्भीरगाण्डिवगुणाद्रलितै पृषत्कै-
  र्गण्डस्थले हृदि भुजे गमितव्रणास्ते ।
 गर्व विहाय चकिता गगनान्तराले
  गन्धर्वभावसदृश गमन वितेनु ॥ ६२ ॥


अर्जुन अस्मिन्वने वसतीत्युक्तप्रकारा वार्ता वृत्तान्त । हे गायका , भवता कर्णे किचित् स्खल्पमपि न पपात न प्रविष्टवती । भवद्भिर्न श्रुतेत्यर्थं । यत् यस्मात् ईदृश बङवा भ्रातुर्नयनरूप साहस अविचारितकृत्य आतनुध्वे कुरुध्वे । तस्मान्न पपातेति योज्यम् । अत्रोत्तरवाक्यार्थस्य पूर्ववाक्यार्थं प्रति हेतुत्वात् काव्यलिङ्गभेद ॥ ६० ॥

 भ्रातेति । किच असौ नीयमान मे भ्राता दुर्योधन अधुना न विसृज्यते चेत् न त्यज्यते यदि । युष्माभिरिति शेष । तर्ह्यत्र इदाना मे मम गाण्डीव चाप तथा सनह्यतु उद्युक्तो भवतु, यथा महेन्द्र देवेन्द्र स्वयो स्वीययो बाह्वो कीर्ति दानक्षात्रजन्या स्वयमेव वीणा परिगृह्य गयेत् स्तुवीत । मद्भाण्डिवो युष्मान्नि शेषीकरोतीत्यर्थ । अत्र इन्द्रकर्तृकवीणादानरूपाप्रस्तुतकार्यवर्णनेन गन्धर्ववधस्य प्रस्तुतस्य प्रतीते कार्यनिबन्धनाप्रस्तुतप्रशसाभेद । उपजाति ॥ ६१ ॥

 इतीति । इत्युक्तप्रकारेण विजयस्य अर्जुनस्य वीरवादेन पुनरपि निवर्तमानै प्रत्यागच्छद्भि असेषु भुजशिखरेषु वीणाम् । इति जात्येकवचनम् । निबध्य बाणासन चापमेव । नतु वीणामित्यर्थ । करे कूजयद्धि गुणाकषणेन टङ्कारयद्भि तैर्नभश्चरै सम गन्धर्वै सह एषा भीमादीना सकलाना वैमानिकाना देवसाध्यादीना परिषद समाजस्य अङ्गरुहेभ्य लोमभ्य वितीर्ण दत्त निद्राया भङ्ग उद्वोध येन तथोक्त । अत्याश्चर्यात्कृतरोमाञ्च इत्यर्थ । महान् सगर युद्ध अभूत् ॥ गम्भीरेति । गम्भीरस्य महत गाण्डिवस्य धनुष गुणातू मौर्व्या गलितै प्रयुक्तै पृषत्कै बाणै गण्डस्थले हृदि वक्षसि भुजे च गमितानि प्रापितानि व्रणानि येषा तथोक्ता ते गन्धर्वा गर्व युद्धाहकार विहाय चाकिता भीता सन्त गगनान्तराले आकाशमध्ये गन्धर्वभावस्य अश्वत्वस्य सदृश अनुरूप गमनम् । पला-



१९

  1. ‘करे’ इति नास्ति कन्चित्