पृष्ठम्:चम्पूभारतम्.pdf/२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
चम्पूभारते


 ऱाजन्,ख[१] लु पुरा मम पिता गपितामहसमानस्य निशान्त[२]मधिवसत कृशा तनुलता तपसा वहतोऽपि दिशा ततिषु शान्त्ंरविकान्तिभृशा[३] न्तरङ्गाङ्रुरुचा तर[४]गपरपरा तरलयतोऽशान्तमनसो मुनेरुपान्तपरिचरणाय मामनुशासितशै[५]शवराज्यामपि नियोज्यामकरोत्।

ततो नि[६]योगान्समयेषु लब्धु मया महायत्नषा महर्षे।
आरामवल्लीरपहाय तस्य भ्रूवल्लिमेव प्र[७]तिपल्य तस्थे॥३८॥
यथा यथा सेवनयत्नजन्मना निदाघतोयेन निषिक्तमङ्गकम् ।
तथा तथावर्धत तापसान्तिके महाविकासा मम भक्तिवल्लरी॥३९॥


नस्य पत्युरग्रमुवि समग्रेण महता मन्दाक्षेण लज्ज्या रमनणीया मनोज्ञा मन्दार परि मितरिअक्षराणि मणय इव तैर्यन्त्रित सघटितमिद वक्ष्यमाण वचन पृथा कुन्त्यपि कथायामासोक्तवती । कथयतेर्लिटयमादेशेऽस्तेरनुप्रयोग ॥

 राजन्निति । हे राजन्, खलु । 'निषेधवाक्यालकारजिज्ञासानुनये खलु' इत्यमर । पुरा कन्यात्वदशाया मम पिता कुन्तिभोजो निशान्तमधिवसत स्वगृहे वर्तमानस्य । 'उपान्वध्याड्वस' इति कर्मत्वम् । पितामहेन ब्रह्मणा समानस्य तपसा कृच्छ्चान्द्रायणादिना कृशा तनुर्लतेव ता वहतोऽपि । तप कृशस्यापीत्यर्थ । दिशा प्राच्यादीना ततिषु समूहेषु निशान्तरवेर्बालसूर्यस्य कान्तीना भृशमन्तरङ्गाणामाप्तानाम् । तत्तुल्यानामित्यर्थ । अङ्गरुचा देहप्रमाणा तरंगपरंपरा तरलयत प्रसारकस्याशान्त शान्तिरहितम् । क्रुद्धमिति यावत् । मनो यस्य मुनेर्दुर्वासस उपान्ते समीपे परिचरणाय शुक्ष्रूषणायानुशासित पालित शैशव बाल्यमेव राज्य यया ता तथोक्ताम् । बाल्यात्परिचरणाशक्तामपीत्यर्थ । मा नियोज्या परिचारिकामकरोत् । महता सेवाया दुर्लभत्वादविचार्य कुलवय शीलादिकमवश्य तेषा सेवनीयत्वादिति भाव ॥

 तत इति । तत समयेषु स्त्रनाद्यवसरेषु नियोगाञ्जलानयनाद्याज्ञाप्यल्लब्धु प्राप्तु महान्त यत्न जुषत इति तथोक्तया मया आरामे वल्ली पुष्पलता विहाय तस्य महर्षेर्दुर्वाससो भ्रूरेव वल्ली ता प्रतिपाल्य निरीक्ष्य तस्थे स्थितम् । तिष्टतेर्भावे लिट् । बाल्योचितपुष्पावचय विहाय तन्नियोगानुदपादयमित्यर्थ । यत्तु 'नि योगात्'इति पञ्चम्यन्तपाठे भ्रमेण नियोगादनुज्ञावाक्यात्' इति नहिंस, तत्तुच्छम् । 'लब्धुम्' इति तुमुनन्तस्य कर्माकाइया साकाङ्क्षत्वदोषापत्तेक्ष्च ॥३८॥

 यथेति । ममाड्गमेवाङ्गक शरीर सेवनयत्नान्मुनिसेवानुकूलव्यापाराज्जन्म यस्य तेन निदाघतोयेन क्ष्रमजलेन यथा यथा निषिक्तमभिषिक्तम्, तथा तथा


  1. 'पुरा खलु पिता मम' इति पाठ
  2. 'रचिकान्त' इति पाठ
  3. 'अतरङ्गरुचाम्' इति पाठ
  4. 'तरलयितु' इति पाठ
  5. 'यौवराज्याम्' इति पाठ
  6. 'निदेशात्' इति पाठ
  7. 'प्रतिहाय' इति पाठ