पृष्ठम्:चम्पूभारतम्.pdf/२२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१९
पञ्चम स्तबक ।


त वीक्ष्य तत्र तरुसावरण भजन्ती
 सा पार्षती सविधवल्लिपरम्परासु ।
हासै कराङ्गुलिबिलादसकृद्रलद्भि-
 राकालिकी कुसुमपङ्क्तिमिव व्यतानीन् ॥ ६५ ॥
वीरव्रातैस्त्रिभुवनत[१]ले वि[२]क्ष्रुते न कुलेऽस्मि-
 [३]न्नुत्पद्य त्व बहुभिरनुजैरास्थितोऽप्याधिपत्यम् ।
एव भङ्ग किमिह भजसे वत्स नीचै प्रणीत
 राजन्याना परपरिभवो राजयक्ष्मा हि कीर्ते ॥ ६६ ॥
इत्थ निगद्य सरलेन युधिष्ठिरेण
 बन्धाद्वि[४]मुच्य बकविद्विषता विसृष्ट ।
मान च्युत मृगयमाण इवातिनम्रो
 वाचयमेन स ययौ महता बलेन ॥ ६७ ॥


त्प्रेक्षा । सुयोधन आदाय ते भीमादयो भीमार्जुननकुलसहदेवा वसुधाधिपस्य राज्ञो युधिष्ठिरस्य सनिधि समीप प्रत्यनयन् प्रापयन्ति स्म ॥

 तमिति । सा तथा तैरपकृतत्वेन प्रसिद्धा पार्षती द्रौपदी तरु वृक्ष आवरण भजन्ती कुर्वती सती तत्र राज्ञ समीपे त दुर्योधन वीक्ष्य करस्य वक्त्रे निहितस्य अङ्गुलीना बिलात् मध्यात् असकृत् बहुवार गलद्भि प्रसरद्भि हासै सविधवल्लीना समीपलताना परम्परासु पङ्क्तिषु। अकाले अपर्तुभवा आकालिकीं कुसुमपाङ्क्ति व्यतानीत् जनयामासेवेत्युत्प्रेक्षा । भृश जहासेत्यर्थ । महतामवमन्तारो दैवादवमान भजन्ति मरणादप्यविकमिति हासप्रकार ॥ ६५ ॥

 वीरेति । हे वत्स, त्व वीराणा लोकैकशूराणा कुरुपूरुप्रभृतीना व्रातै बृन्दै त्रिभुवनतलेऽपि विश्रुते प्रसिद्धे न अस्माक सबन्धिनि अस्मिन् वशे चान्द्रे बहुभिनवोत्तरनवत्या अनुजै सह उत्पय सभूय कि च आधिपत्य प्रभुत्वमपि आस्थित । चतुरङ्गबलसमेतोऽपि सन्नित्यर्थ । नीचै हीनै गन्धर्वै प्रणीत प्रापित एव परिदृश्यमानप्रकार भङ्ग पराभव इह इदानीम् । किमिति जुगुप्सायाम् । भजसे वहसे इति काकु । अनुचितमित्यर्थ । कुत । हि यस्मात्कारणात् । राजन्याना राज्ञा परै परिभव तिरस्कार कीर्ते राजयक्ष्मा क्षयरोग । कीर्तिनाशक इत्यर्थ । मन्दाक्रान्ता ॥ ६६ ॥

 इत्थमिति । सरलेन उदारेण युधिष्ठिरेण इत्थ उक्तप्रकार निगद्य उक्त्वा


  1. भवै ” इति पाठ
  2. ‘सस्तुते’ इति पाठ
  3. ‘उद्भूय त्वम्’ इति पाठ
  4. 'विमोच्य’ इति पाठ