पृष्ठम्:चम्पूभारतम्.pdf/२२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२०
चम्पूभारते

य प्राय ब[१]हुमिच्छन्ति जना जीवितुमुत्सुका ।
उपाविक्षत्तमेवासौ पथि प्राणान्समुज्झितुम् ॥ ६८ ॥
 तस्मिन्व्रते स्वपनलब्धसुरारेिसाह्य-
  स्त्यागे तनोस्तदनु बन्धुतया निषिद्ध ।
 तस्माद्वनात्पुनरपि प्रतिपद्य धैर्य
  घुष्यद्वलो निववृते कुरुराजधानीम् ॥ ६९ ॥
  

तत्र खलु ।

कदापि मा बन्धय गायकैर्मामितीव हव्यैरसृतायमानै ।
सप्रीणयन्निन्द्रमथाभिमानी स पौण्डरीक क्त्रतुमाजहार ॥ ७० ॥
  


बकविद्विषता भीमेन बन्धात् गन्धर्वकृतात् विमुच्य मोचयित्वा विसृष्ट अनुज्ञात स दुर्योधन । च्युत मान मृगयमाण । विचिन्वन्निवेत्युत्प्रेक्षा । अतिनम्र सन् । वाचयमेन लज्जया परिहृतक्ष्वेलितवाधरवेण महता बलेन सह ययौ गतवान् ॥ ६ ॥

 यमिति । जीवितुमुत्सुफा चिरजीवनेच्छव जना य प्राय वय बहु अनेकवार्षिक इच्छन्ति । तमेव प्राय निरशनव्रत च । प्राणान् समुज्झितु त्यक्तु असौ दुर्योधन पथि मार्गे उपाविक्षत् प्रविष्टवान् प्रायोपवेश चक्रे । विशे कर्तरि लुड् । ‘प्रायो वयसि बाहुल्ये तुल्यानशनमृत्युषु' इति वैजयन्ती । अत्र प्रायशब्दश्लेषभित्तिकालब्धवयोनिरशनव्रतद्वयाभेदातिशयोक्तया दीर्घजीवन हेतोरेव सद्यो जीवननाशत्वरूपस्य व्याघातालकारस्योज्जीवनात् द्वयोरङ्गाङ्गिभावेन सकर । ‘स्यादूथाधातोऽन्यथाकारि क्रियेत चेत्' इति लक्षणात् ॥ ६८ ॥

 तस्मिन्निति । तदनु दुर्योधन तस्मिन् व्रते प्रायोपवेशे स्वपने स्वप्ने लब्ध सुरारीणा अलम्बुसादीना साह्य युद्धे साहाग्य येन तथोक्त सन् । बन्धुतया बन्धुसमूहेन तनोस्यागे विषये निषिद्ध निवारितश्च सन् । वैर्य प्रतिपद्य तस्माद्वनात् द्वैताख्यात् । पुनरपि धृष्यदूल शब्दायमानचतुरङ्ग सन् । कुरुराजबानी हस्तिनपुर प्रति निवपृते प्रत्यागतवान् ॥ ६९ ॥

 तत्र कुरुराजधान्याम् । खल्विति उत्तरेण सबध्यते । इतीद काचित्क गद्यमुत्तरत्र अथशब्देन सदर्भविद्धमपि व्याख्यातम् ॥

 कदेति । अथ कुरपत्तनप्राप्त्यनन्तर अभिमानी मानधन अतएव स दुर्यो धन हे इन्द्र, इत पर कदापि गायकै गन्धर्वे मा मा बन्धय इति अमृतवन्मधुरायमाणै अमृतायमानै हव्यै आज्यपुरोडाशादिभि इन्द्र सप्रीणयन् सतोषयन्निवेत्युत्प्रेक्षा । पौण्डरीक नाम क्रतु याग आजहार कृतवान् ॥ ७० ॥


  1. ‘बहु मन्यते’ इति पाठ