पृष्ठम्:चम्पूभारतम्.pdf/२२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२२
चम्पूभारते

तत्तादृशे करेऽस्या विविधवनभव कन्दमूलोपहार
 दातु लज्जापयोधेस्तलमभिममृशुर्धर्मदारा मुनीनाम् ।
यस्य स्पर्शानुभावाद विरतमुदितै[१] पायसैरेव दिव्यै
 किचिद्भाण्ड वनान्ते तनुमतिथिजनस्यातनोदन्यथार्थाम् ॥ ७४ ॥
 [२]दिशि दिशि मृगयायै तेषु यातेषु जातु
  स्वयमुटजमवाप्त सोम[३]केन्द्रात्मजाया ।
 लपनशशिमहिम्ना लङ्धयामास वेला
  तरलितमकराङ्कस्तत्क्षण सिन्धुराज ॥ ७५ ॥
  


 तदिति । त तमिव पश्यतीति तादृक्ष । कञ्प्रकरणे ‘क्सोऽपि वाच्य ' इति क्से ‘व्रश्च-' इत्यादिना षत्वे षढो क सि’ इति कत्वे ‘आदेशप्रत्यययो 'इति षत्वम् । ‘आ सर्वनाम्न’ इति दीर्घश्च । तस्मिन् वक्ष्यमाणप्रभावेणासदृशे अस्या द्रोपद्या करे विविध वनेभव चेति वैवक्षिकविशेषणविशेष्यभावात् समास । कन्दमूलमेव उपहार अशन दातु मुनीना वर्मदारा वर्मपत्र्य । लज्जैव पयोधि तस्य तल अधोभाग अभिममृशु स्पृशन्ति स्म । अतिलज्जिता बभूवुरित्यर्थ । यस्य द्रौपदीकरस्य स्पर्शान योऽनुभाव माहात्म्य तस्मात् अविरत अक्षय यथा तथा उदितै आविभूतै दिव्यै अमानुषै पायसै परमान्नैरेव नतु शाकपाकादिभिरित्यर्थ । किचित् अतिखल्पमपि भाण्ड अर्कदत्त पात्र वनान्ते अतिथिजनस्य तनु शरीर अन्यथा किचित्त्वविरुद्ध अर्थ महत्त्वात्मक यस्यास्तथोक्ता अतनोत् चक्त्रे । तत्तादृक्ष इति सबन्व । अत्रोत्तरवाक्यार्थस्य लज्जापयोधिमज्जनहेतुत्वात्काव्यलिङ्गभेद । अस्य चात्यौदार्यवर्णनात्मकोदात्तालकारेण सहैकवाचकानुप्रवेशसकर । स्पर्शानुभावाविरतान्नोदययोर्हेतुहेतुमतोरुक्त्यात्मकेन हेत्वुलकारेण चाप्युक्त एव सकर इति च प्राहु ॥ ७४ ॥

 दिशीति । जातु कदाचित् तेषु युधिष्ठिरादिषु सर्वेषु मृगयायै मृगया कर्तु इति । ‘क्त्रियार्थ-'इत्यादिना चतुर्थी । दिशि दिशि प्रतिदिश यातेषु गतेषु सत्सु । उटज पर्णशाला अवाप्त प्राप्त सिन्धुराज सैन्धव समुद्रश्च । ‘देशे नदविशेषेऽव्धौ सिन्धुर्ना सरिति स्त्रियाम्' इत्यमर । एकत्र सिन्धुर्देशोऽपरत्र सरिदिति विवेक । सोमकेन्द्रात्मजाया द्रौपद्या लपन मुखमेव शशी चन्द्र तस्य महिम्ना प्रभया तत्क्षण सद्य तरलित मफराङ्क मन्मथ यस्य तथोक्त सन्। आकुलितग्राइचिह्लश्च वेलामयादा कूल च लङ्धयामास अतिक्त्रान्तवान्। ता बलाद्रृहीतवानित्यर्थ । अत्र चन्द्रचन्द्रिकया आकुलितग्राह समुद्रस्य कूललङ्घनरूपमर्थान्तरं ध्वनिरेव न श्लेष । ‘सर्वत्राद्यद्वये नान्त्ये’ इति तन्निषेधात् । मालिनी ॥ ७५ ॥


  1. ‘स्याद्विविध’ इति पाठ
  2. एतत्पूर्वम् ‘तत्रान्तरे’ इति काचित्
  3. ‘सोम के द्रस्य पुत्र्या ’ इति पाठ