पृष्ठम्:चम्पूभारतम्.pdf/२३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३४
चम्पूभारते


 [१] दनु ललाटतपनखपचहेलिधूलिभ्या द्यावापृथिवीभ्यामुदन्यावदान्यमहिम्नि दिनयोवने प्रा[२]दुर्भवति सति प्रकृतमर्थमिव पानीयमपि इतस्ततो विचिन्वद्भिरनुजै[३] सह कस्यचिद्विशालस्य वनशालस्य मूलमुव त[४]च्छायामण्डलमिव पाण्डव शनै शनैरुपससर्प ।

 तत्रानिले कमलगन्धिभिरुच्यमाना-
  माशा गतेषु सलिलाय चिरायितेषु ।
 भीमादिषु क्षितिभुजा परितप्य भेजे
  तेषा पदानुसरणादथ कापि वापी ॥ १०१ ॥


स कोऽपि दुर्जेय कृष्णसार कुरग दूर दूरदेश आकृष्य लाभाशया नीत्वा स्वय अन्तरधात् अन्तर्हितवन् ।

 तदन्विति । तदनु कृष्णसारान्तर्धानानन्तर ललाट तपतीति ललाटतप । नखान् पचतीति नखपच । शिर पाददाहिनाबित्यर्थ । हेलि सूर्य धूलि रज ययोस्ताभ्या धावापृथिवीभ्या आकाशभूमिभ्या उदन्याया पिपासाया वदान्य दाता महिमा प्रभाव यस्मिन् तम्मिन्। अतितृष्णाजनक इत्यर्थ । ‘उदन्या तु पिपासा तृट्' इत्यमर । दिनस्य अह्न यौवने मध्यभागे । मध्याह्नकाल इति यावत् । प्रकृतमर्थ अरणिमिव हरिणमिव वा। पानीय जलमपि इतस्तत विचिन्वद्भि अन्विषद्भि अनुजै भीमादिभि सह पाण्डव वर्मराज विशालस्य विस्तीर्णस्य कस्यचित् वने शालस्य पृक्षस्य मूलभुव मूलदेश प्रति तस्य वनशालस्य च्छायामण्डल अनातपबिभ्य इव शने शनैगत्यातपश्रमात् भन्द मन्द उपस सर्प समीप गतवान् । अत्र च्छायामण्डलपाण्डवयो शने शनैर्मूलोपसर्पणेनौपम्यस्य गम्यत्वात् तुल्ययोगिताभेद । अस्य च अरणिजलयोरन्वेषणेनौपम्य गमकतुल्ययोगिताभेदेन ससृष्टि ॥

 तत्रेति । तत्र पृक्षमूले कमलगन्विभि पद्मसौरभवाहिभि अनिलै वायुभि उच्यमानाम् । अत्रास्ते पह्निनीति सूच्यमानामित्यनुमानालकार । आशा दिश प्रति सलिलाय उदकमानेतुम् । इति ‘क्रियार्थ-'इत्यादिना चतुर्थी । गतेषु भीमा दिषु चतुषु चिरायितेषु चिरादप्यनागतेषु सत्सु । अय क्षितिभुजा धर्मराजेन परितप्य किमेषामत्याहित यतोऽद्यापि नागच्छन्तीत्यनुतप्य तेषा भीमादीना सबन्धिना पदाना पादनिक्षेपस्थानाना अनुसरणात् अनुसृत्य गमनात् । 'तत्कृत्य - ' इति ल्यब्लोपे पञ्चमी वा । कापि इय एतादृशीति दुर्जेया वापी दीर्घिका भेजे प्राप्ता । भजते कर्मणि लिट् ॥ १०१ ॥


  1. ‘तदनतरम्’ इति पाठ
  2. “महिमनि’ इति पाठ
  3. ‘प्रादुभवति सति’ इति नास्ति क्कचित्
  4. ‘तच्छाय’ इति पाठ