पृष्ठम्:चम्पूभारतम्.pdf/२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
चम्पूभारते

अपि क्रुधामावसतेरमुष्मान्मत्वा गुरुत्व वरमस्त्रलाभे।
अपष्पुवत्यामपि मे दशायामामोदभारोऽधिकमाविरासीत् ॥४३॥

 अधुना तस्य प्रभावेन शतमखमुखासु निखिलासु ले[१]खारेखासु ये ये परास्तेि ते रहसि कृ[२]तसानिध्या स्वा[३]नुगुणगुणगणविभवानात्मभवान्मयि विकसदनुकम्पा सपादयिष्यन्ति ।

इति नृपाय कृपायतचेतसो यदुसुता मुनिनेतुरनुग्रहम् ।
अदशनत्रणपीडमहर्पतेरभिदधे र[४]तसगमन विना ॥ ४४ ॥


कामितार्थस्य समर्थापने सघटने परतन्त्र आयत्तम् । समर्थमिति यावत् । कमप्यनिर्वाच्यम् । 'गुरु प्रकाशयेद्धीमान्न तु मन्त्र प्रकाशयेत्' इति मन्त्रनामाप्रकाशस्मरणात् । मन्त्रमुपादिक्षदुपदिष्टवान् । दिशते कर्तरि लुड् ॥

 अपीति । क्रुधा कोपानामावसतेर्निवासभूतादप्यमुष्माद्दुर्वाससो वरभूतम्य 'मन्त्रस्य लाभे सति गुरुत्वमाचार्यत्व मत्वा ज्ञात्वा । क्रुद्धस्य गुरत्वास्मरणात्क्रुद्धेऽपि शुश्रूषातिशयेन प्रसादसपादनादनादात्मनि गुरुत्व क्ष्रैष्ठ्य वा मत्वा । मे ममापुष्पवत्या पुष्परहितायामपि अरजोवत्यामपीति च । दशायामवस्थाया बाल्ये। च अत एव विरोधाभासोऽलकार । आमोदभार परिमलातिशय सतोषातिशयश्चाधिकमाविरासीत् । 'आमोदो गन्धहर्षयो' इति विश्व ॥ ४३ ॥

 अधुनेति । अधुनेदानी शतमस इन्द्रो मुखमादिर्यासा तासु निखिलास्वखि लासु लेखाना देवाना रेखासु पङ्क्त्तिषु ये ये परार्ध्या गुणवत्तरास्ते ते वक्ष्यमाणा इन्द्रादयस्तस्य मुन्युपदिष्टमन्त्रस्य प्रभावेन सामर्थ्येन रहसि कृत कारित सानिध्य समीपस्थिविर्येषा ते तथोक्ता । 'ध्यानमात्रसाध्यसानिध्या' इति पाठान्तरम् । विक्रान्त्यनुकम्पा येषा ते तथोक्ताश्च सन्त स्वस्य प्रत्येकमात्मनोऽनुगुणोऽनुरूपो गुणाना शोर्यधैर्यादीना गणस्य सघस्य विभव समृद्धिर्येषा तानात्मभवान्पुत्रान्मयि सपादयिष्यन्ति जनयिष्यन्ति ॥

 इतीति । इत्युकप्रकारेण कृपयायत सान्द्र चेतो यस्य तस्य मुनीना नेतुर्नाय कस्य दुर्वाससोऽनुग्रह वरमन्त्रदानरूप प्रसाद यदुसुता कुन्ती नृपाय पाण्डवे । अहर्पते सूर्यस्य सबन्धि न विद्यते दशनव्रणाना दन्तक्षताना पीडा दु ख यसिंस्तत् । चौर्यरतत्वादिति भाव । रतस्य सुरतस्य सगमन प्रापण विनाभिदधे कथया मास । तदितरत्सर्वमुवाचेत्यर्थ । तस्य लोकदूयनिन्द्यत्वादिति भाव । कुन्ती मपरीक्षणाय सूर्यमाहूय बाल्ये ब्रेनोपमुक्तेति भारतकथात्रानुसधेया। दुतवि लम्बितवृत्तम् ॥ ४४ ॥


  1. लेखलेखासु' इति पाठ
  2. ध्यानमात्रसाध्यसानिध्या' इति पाठ
  3. स्वस्वानुरूपनुणविभवान्' इति पाठ
  4. 'रति' इति पाठ