पृष्ठम्:चम्पूभारतम्.pdf/२४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४२
चम्पूभारते

षष्ठः स्तबकः ।

 तदनु ते भरता व्यवधाश्रयाञ्चरमहायनलङ्क्षनकाङ्क्षिण ।
 अतिचिर रविभाण्डविव[१]र्धिताननुचरानिव तामटवीं जहु ॥ १ ॥

 तदन्वमी तदनु तचितवचनसाहसाधिगतवाहसाधिपवपुष नहुषमौ [२]दरदमन शमनाय चतुरर्णववारिकाङ्क्षिण पारिकाङ्क्षिण [३]अग-


अरणि येन तस्य द्विजवरस्य ब्राह्मणश्रेष्टस्य शुचा साक दु खेन सहैव अन्त समाप्ति जगाम । निस्तीर्णप्रतिज्ञा बभूवु । पाण्डवा , निस्तीर्णदु खश्च बभूव ब्राह्मण इत्यर्थ । अत्र पाण्डववनवासशपथब्राह्मणदु रवयो समाप्तिप्राप्त्या सहभावस्य सहृदयरञ्जकस्य वर्णनात् सहोक्तिरलकार । ‘सहोक्ति सहभावश्चेद्भासते जनरञ्जन ' इति लक्षणात् । एव तयो प्रकृतयो समाप्तिगमनेनौपम्यस्य गम्यत्वात्तुल्ययोगिताभेदश्च । द्वयोरनयोरभिन्नपदबोध्यत्वादेकवाचकानुप्रवेश सकर ॥ ११५ ॥

 इति श्रीसदाशिवपादारविन्दवन्दनकन्दलितानन्दसान्द्रस्य कुरविकुलचन्द्रस्य रामकवीन्द्रस्य कृतौ चम्पूभारतव्याख्याने लास्याख्याने पञ्चम स्तबक ॥

षष्ठ स्तबक ।

 अस्सिन्स्तबके अज्ञातवाषिकवृत्तान्त वर्णयन्ति–तू न्विति । तदनु वनवाससमयनिस्तरणानन्तर व्यवधाया आच्छादनस्य षान्तरस्येति यावत् । आश्रयात् स्वीकारात् । ‘अन्तर्धाव्यवधा-' इत्याच्छक्षर्यायेष्वमर । चरमस्य अन्तिमस्य हायनस्य अज्ञातवाससवत्सरस्य है; यापन काङ्कन्त इति काङ्क्षण अत एव ते स्थितवझ आचेर आ द्वादशसवत्सर रवे सूर्यस्य सबन्धिना भारतस्य अतीतेन अतिर्ण विवर्धितान् पोषितान् अनुचरान् परिचरानिव ता अटवी द्वैत आकारय जहु तत्त्यजु । अत्राज्ञातवासकाझ्या विशेषणगत्या वर्मराहेतुत्वत्पदार्थहेतुककव्य लिङ्गस्य परिजनाटव्यो प्रकृतयो त्या कस्य तुल्ययोगिताभेदस्य च दूयोरङ्गाङ्गिभावेन सकर । द्रुतविलम्बित वृत्तम् ॥१ ॥

 तदन्विति ।तदनु तदुभयत्यागानन्तर अमी पाण्डवा तस्य अगस्त्यस्य अनुचितेन । त प्रति वक्तुमनर्हेणेत्यर्थ । वचनसा सेन वाक्पारुष्येण हेतुना अधिगत प्राप्त बाहसा अजगरा नाड् सर्पविशेषा तदधिपस्य श्रेष्ठाजगरस्येव वपु यस्य तम् । अगस्त्यशापप्राप्ताजगरवमित्यर्थ नहुष नाम राजानम् । उद रैभवस्य औदरस्य दमनस अग्ने ।जठतानलस्येति यावत । शमनाय निवारणार्थ चतुर्णा अर्णवाना समुद्राणा वारि काङ्क्षन्द हेण । चतु समुद्रजलपायिन


  1. ‘अमी” इति नास्ति कश्चित्
  2. 'दमुन ' इति पाठ
  3. ‘अगस्त्यस्य इति नास्ति कचित्