पृष्ठम्:चम्पूभारतम्.pdf/२५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५०
चम्पूभारते


 अथैकदा तत्र सुदेष्णाया प्रेषणेन मदनोत्सवासवाय बासवायतनसदृश वास[१]गृहमागता कौरवाधमकर[२]परिक्लेशादिव विवर्णेन वाससा[३]वगुण्ठिताङ्गी नरवशशिपरम्परासेवनलालसतयेव प्रपद्समुखीनलोचननीलोत्पला राजीवशङ्कयानुव्रजता राजहसेनेव राजतभाजनेन राजितकराञ्चला पाञ्चालसुता विलोक्य पञ्चेषुबाणवञ्चितविवेको मञ्चादुपसृत्य किचिदाकुञ्चितमौलि कीचको वा[४]चमुवाच ॥


नाश्वगोपालनै सपादित क्ष्लाधासु घटित शिरस कम्प वयसा चरमेण कृत शिर कम्पमिव सतत अनुभवता तेन महीपतिना विराटेन बहुमानिता सन्त पृथासुता युधिष्ठिरादय विवासेन राज्यभ्रशेन य खेद त यथा नाज्ञासिषु विसस्मरु तथा तेषामिद तदीय पृथासुतसबन्धि स्वरूप युधिष्ठिरत्वादिक्मपि इतरे जना पौरजानपदाश्च नाज्ञासिषु न जानन्ति स्म । जानाते कर्तरि लुड्। अत्र पाण्डवान तदितरेषा च तत्तदज्ञानेनौपम्यस्य गम्यत्वात्तल्ययोगिताभेद ॥

 अथेति । अथ अनन्तर एकदा कदाचित् तत्र विराटनगरे मदनोत्सवस्य सुरतार्थ आसवाय मद्यमाहर्तुमिति ‘क्रियार्थ-' इत्यादिना चतुर्थी । सुदेष्णाया विराटपत्न्या प्रेषणेन हेतुना वासवस्य इन्द्रस्य आयतनेन गृहेण सदृश वासगृह केलीगृह प्रति आगता कौरवाधमस्य दु शासनस्य करेण य परिक्लेश आकषजनितदु ख तस्सादिवेत्युत्प्रेक्षा । विवर्णेन गतशोभेन । मलिनेनेति यावत् । वाससा वस्त्रेण अवगुण्ठित आच्छादित अङ्ग यस्यास्ताम्। नखानामेव शशिना चन्द्राणा परम्पराया पङ्क्ते सेवने लालसतया अनुरागेणेवेत्युत्प्रेक्षा। प्रपदस्य पादाग्रस्य समुखीने अभिमुखे लोचने एव नीलोत्पले यस्यास्ताम् । पातिव्रत्येन पादाग्रनिहितदृष्टिमित्यथ । राजीवशङ्कया पह्नभ्रमेण अनुव्रजता अनुसरता राजहसेनेव स्थितेनेति भ्रान्तिमदुज्जीवितोत्प्रेक्षा । राजतेन रजतविकारेण भाजनेन पात्रेण राजित दीप्त कराञ्चल अग्रहस्त यस्यास्ताम्। पाश्चलसुता द्रौपदी विलोक्य पञ्च इषव बाणा पुष्पमया यस्य तेन मन्मथेन वञ्चित अपहृत विवेक कृत्याकृत्यविचार यस्य स अत एव कीचक सुदेष्णाभ्राता मञ्चात् शयनात् उपसृत्य समीपमागत्य किचित् आकुञ्चित अवनमित मौलि शिर येन तथोक्त । गृहीतविनय सन्नित्यर्थ । वाच वक्ष्यमाणा उवाच । अत्र केवलोत्प्रेक्षाया रूपकोत्प्रेक्षासकररूपकाङ्गाङ्गिभावसकरस्य भ्रान्तिमदुत्प्रेक्षासकरस्य च त्रयाणा ससृष्टि ॥


  1. ‘गेइम्’ इति पाठ
  2. ‘परिक्लेशदु खादिव’ इति पाठ
  3. ‘अवकुण्ठिताङ्गीम्' इति पाठ
  4. नीचा वाचम्’ इति पाठ