पृष्ठम्:चम्पूभारतम्.pdf/२५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५३
षष्ठ स्तबक ।


[१]सदृश्यसे त्व निखिलेन बाले
 मध्येन हीनापि मनोज्ञमूर्ति ॥ २६ ॥
न पल्लवस्तन्वि न विद्रुमश्च
 ताम्रोऽधरोऽय तव बिम्बमेव ।
चन्द्रो यदि स्यात्तव वक्रमेत
 च्चन्द्रस्य बिम्य सहज हि लोके ॥ २७ ॥
कान्ते तवाननमिद कमलावलीषु
 स्रष्ट पुरा सरसि विस्मृतमेव धात्रा ।
पश्चाद्विचि[२]न्तितवता तदुपान्तभागे
 [३]सदृश्यते विरचित खलु हसपाद ॥ २८ ॥


न्दरस्य भाव अरम्यत्व विरूपत्व भजते प्राप्नोति । त्व तु निखिलेन यावता मध्येनाङ्गेन हीना शून्यापि सती मनोज्ञा रम्या मूति शरीर यस्यास्तथोक्ता सदृश्यसे । ‘निरीक्ष्यसे’ इति वा पाठ । उभयत्रैक एवार्थ । मयेति शेषश्च । अत्रारम्यत्वकारिण यावन्मध्यवैकल्यस्य तद्विरुद्धरम्यत्वसाधकत्वेन वर्णनादूयाघातालकार । यावन्मध्यवैकल्यासबन्धेऽपि तत्सबन्धरूपातिशयोक्तत्युज्जीवित इति द्वयोरङ्गाङ्गिभावेन सकर । तेन लोकैकविलक्षणं भवदीयलावण्यमिति प्रतीतेरलकारेण वस्तुध्वनि ॥ २६ ॥

 नेति । किच हे तन्वि, ताम्र अरुण तव अय अधर न पल्लव न विद्रुश्च कितु बिम्ब बिम्बफलमेव मण्डलमेवेति च । कथमेतदत आह-चन्द्र इति । तवैतद्वक मुख चन्द्र स्याद्यदि । हिरवधारणे । तर्हि-चन्द्रस्यैव बिम्ब मण्डल बिम्ब फल च सहजम् । नान्यस्येत्यर्थ । अत्र मुखचन्द्रयोर्मेदेऽप्यभेदातिशयोक्तिरेका । अस्मिन्नेव वाक्यार्थे मुखस्य बिम्बवत्ता साहजिकत्वसिद्धये मुख चन्द्र यदि स्यादित्यूहात्मक सभावनालकार । दूयोश्चैकवाचकानुप्रवेशसकर । तेन च युक्तयुपन्यासरूपेणा वरे विद्रुमत्वपल्लवत्वे निषिध्य बिम्बत्वारोपरूपाया हेत्वपहुतेरुज्जीवना- दनयोरङ्गाङ्गिभावेन सकर ।इद तु रहस्य मण्डलबिम्बफलयो श्लेषभित्तिकाभेदाध्यवसायमूलाया अतिशयोक्तौ सत्यामेव हेत्वपहुते प्रचारेणैतयोरङ्गाङ्गिभावेन सकरस्यैवोक्तसकरोज्जीवितत्वात्सकरयोरेव दूयोरङ्गाङ्गिभावेन सकर इति । यत्तु ‘बिम्बशब्दस्य श्लिष्टार्थत्वादुत्तरार्धेनार्थान्तरन्यासरूपेण तस्य मण्डलार्थकत्वसमर्प णमेव करोति’ इति उत्तरार्धावतरणिका नृसिंहो विकिलेख, तत्तस्य ‘नालकारोऽत्र लिरव्यते इत्यत्र व्यञ्जनागमलकारमौढथ विशदयतीति २७ ॥

 'कान्ते इति । किंच हे कान्ते, तवेदमानन मुख सरसि पद्माकरे कमलाना


  1. ‘निरोक्ष्यसे त्व तु विचित्रमेत मध्येन’ इति याठ
  2. ‘विचिन्तनवता’ इति पाठ
  3. 'सलक्ष्यते’ इति पाठ ।