पृष्ठम्:चम्पूभारतम्.pdf/२६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६०
चम्पूभारते


किमद्य मे दु खमपत्रपा का को वीरपत्नीत्वपदेऽभिमान ।
सर्व गत कीचकनीचषिङ्गाद्ध[१] त्वा कच ताडनमाप्तवत्या ॥ ४५ ॥
 मयि दु खेन घुष्यन्त्या मत्याधिपसभान्तरे ।
 तथ्यस्येव यतेरासीद्धर्मसूनोरुपेक्षणम् ॥ ४६ ॥
 बुभुक्षते न जीवन्ती मारितामेव मा नृप ।
 कल्याण खलु तत्तस्य कङ्कभावभृतोऽधुना ॥ ४७ ॥
 तस्यैवाज्ञापथेऽजस्र च [२]रता स्खलन विना ।
 भवता खलु नि शङ् प[३]रामर्श्या कचेऽपरै ॥ ४८ ॥


 किमिति । हे वीर, कीचक इति नीच षिङ्ग विटाधम तस्मात् कच हृत्वः तत्करे समप्ये ताडनमाप्तवत्या । केशेषु गृहीत्वा तेन ताडिताया इत्यर्थं । मे मम दु ख नाम किम् , अपत्रपा लज्जा नाम का, वीराणा पत्नीत्वपदे भार्यात्वस्थाने अभिमानो नाम क । सर्वत्र किशब्दो निन्दायाम् । ‘कि वितर्के परिप्रश्ने क्षेपे निन्दापवादयो ’ इति विश्व । सर्व उक्तत्रयमन्यत् कुलशीलादिक च गतमेव अत्र कीचताडनेन सर्वलोपसमर्थनात्काव्यलिङ्गभेद ॥ ४५ ॥

 मयीति । किच हे वीर, मयि दु खेन घृष्यन्त्या कीचको मा तताड त्रायध्वमित्युच्चै क्रन्दन्त्या सत्या मत्स्याधिपस्य विराटस्य सभान्तरे आस्थानमण्डपमध्ये धर्मसूनो वर्मराजस्य तथ्यस्य अकृत्रिमस्य यते सन्यासिन इव उपेक्षण औदासीन्य आसीत् । तथ्ययतेर्दारिकसुखदु खोपेक्षास्मरणादिति भाव ॥ ४६ ॥

 बुभुक्षत इति । किच हे वीर, नृप धर्मराज जीवन्तीं मा न बुभुक्षते न भोक्तुमिच्छति न पालयितुमिच्छतीति च । पुन कितु मारिता केनचिन्निहतामेव मा बुभुक्षते इति यत् तत् तथा काङ्क्षण द्विविधमपि अधुना अश्च कङ्कस्य भाव कह्त्व गृध्रुत्व कङ्कसज्ञिक सन्यासविशेष च बिभर्तीति तद्भृत तस्य नृपस्य कल्याण शुभ खलु । गृध्रस्य शवलाभात् यतेर्दारोपेक्षास्मरणाच्चेयुभयत्र भाव । अधुना अज्ञातवाससमये वङ्कभावभृत तस्य तत् कल्याण खलु । अन्यथा अज्ञातवासप्रतिज्ञाभङ्गापत्तेरिति भाव इत्यपि प्राहु । पालनभोजनार्थकाद्भुजे सन्न- न्ताल्लटि बुभुक्षत इति रूपम् । अत्र कङ्कत्वमारणकाह्वयो सन्यासदारोपेक्षयोश्चा नुरूपयो घटनवर्णनात्समालकारद्वयम् । तत्र प्रथम युध्रयत्यो श्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तयनुप्राणित इति तयोरङ्गाङ्गिभावेन सकर । अस्य च द्वितीयस्य च एकवाचकानुप्रवेशसकर इति सूक्ष्मदृशाकलनीयम् ॥ ४७ ॥

 तस्येति । किंच हे वीर, तस्य घुष्यन्तीं मामुपेक्षितवत धर्मराजस्यैव आज्ञैपन्था मार्ग तस्मिन् स्खलन प्रमाद विना अजस्र सतत चरता । तदाज्ञामी-


  1. ‘धृत्वा कचे’ इति पाठ
  2. ‘चलता’ इति पाठ
  3. “परामृश्ये’ इति पाठ