पञ्च सन्तु धवास्तेभ्यो मुञ्च भीति मयि स्थिते । |
इ[२]त्थमतिवेल [३]प्रलपन्तमेन प्रत्यरुचिमुखसाचीकरणे त्रपाहेतुकतामभिनयन्ती सा कुन्तीरन्नुषा तृ[४]षाभिभूतेव वचनमिद् किचिदुदञ्चयाच[५] कार ॥
अयि भद्र, जगदिदमारुद्र क्षुद्रयितु[६]मनिद्राणाय शम्बरद्रुह शासनमुद्रणाय दुह्यति को वा जन ॥
ननूक्तमेव ‘पञ्च मे पतय सन्ति ते च न क्षमन्ते' इत्यत आह- पञ्चेति । अयि तन्वि, ते तव पञ्च धवा पतय सन्तु तिष्ठन्तु नाम । मयि सिंहबले स्थिते सति तेभ्य पतिभ्य भीतिं भय मुञ्च त्यज । तत्र दृष्टान्तयतिपञ्चेति । वने पञ्चवक्रे सिहे दृष्टे सति परे मृगा व्याघ्रादय चरेयु किम् । न चरेयुरेवेत्यर्थ । तथा च मा दृष्टवा ते पलायेयुरेवेति भाव ॥ ५९ ॥
मस्तक इति । हे मानिनि, सप्रति मम मस्तके शिरसि अञ्जलेिपद्मस्य त्वत्प्रसादार्थ बद्धस्य प्रसादस्य शसिन सूचक पाद त्वश्वरणपद्म सहचारिण प्रयच्छ शिरसि निधेहि ॥ ६० ॥
इत्थमिति । इत्थ उक्त प्रकारेण अतिवेल निर्भर्याद यया तथा प्रलपन्त अनर्थक भाषमाणम् । ‘प्रलापोऽनर्थक वच ' इत्यमर । एन कीचक प्रति अरुच्या जुगुसया यन्मुखम्य साचीकरण तिर्यक्करण तस्मिन् त्रपा लज्जैव हेतुर्यस्य तत्तस्य भाव तत्ता ता अभिनयन्ती प्रकाशयन्ती सा कुन्तीरत्रुषा द्रौपदी तृषा कामेन अभिभूता व्याप्तेव । न वस्तुतो व्याप्तेत्यर्थ । किचित् अत्यल्प इद वक्ष्यमाण वचन उदञ्चवयाचकार । उवाचेत्यर्थ ॥
अयीति । अयि भद्र हे शुभशील, आरुद्र शिवमभिव्याप्य इद जगत् लोक क्षुद्रयितु स्वीयविकारेण तुच्छ कर्तु अनिद्राणाय जाग्रते शम्बरद्रुह मन्मथस्य सबन्धिने शासनमुद्रणाय आज्ञाचिह्नाय को वा जन द्रुह्यति तत् को वा लङ्घयति । न कोऽपीत्यर्थ । ‘क्त्रुधद्रुह-' इत्यादिना सप्रदानत्वम् ॥